SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ . श्रीजैन कथासंग्रहः श्रीकयवनाचरित्रम्। ॥३५॥ राजसभायां गुरुता-मान्यता, विमलं यश:-कीर्तिः, अतो धर्मः सर्वैराराधनीयः।। - अथैकदा चरमतीर्थङ्करः श्रीमहावीरप्रभुः सकलं महीतलं पावयन् राजगृहे नगरे समवसृतस्तत्र देवतया समवसरणं विरचितम् । तदैव वनपालो वीरागमनं श्रेणिकक्षितिपतिं व्यजिज्ञपत् । तदाकर्ण्य हर्षातिरेकात्पुलकिततनुरुहो राजा वनपालाय पारितोषिकं प्रदाय सहान्तःपुरैः सानुचरः प्रधानादिवर्गानुगः प्रभोर्वन्दनायै चचाल । तदनुगः पुरवासी नरनारीगण आबालवृद्धः सप्तप्रेयसीसहितः कयवनाशाहश्च प्रमुदाऽचालीत् । तत्रागता नृपादयः क्रमशः प्रभुं त्रिःपरिक्रम्य ववन्दिरे, यथोचितस्थाने समुपाविशैश्च । ततो मेघगम्भीरया गिरा धर्मदेशनां प्रारेभे भगवान् अये भव्यप्राणिनः! अमुष्मिन् संसारे सर्वमसारमेवास्ति। यदपि पुत्रकलनधनपरिवारादि लोक' लोकं देहिनः प्रमोदन्ते, तदपि परिणामे दुःखनिदानमेव वित्त । अत ईदृशे विद्युदाभे जगति भवजलधिपोतप्रायं स्वर्गापवर्गप्रदं धर्ममेव प्रशंसन्ति । अस्मिल्लोके महासागराकारे ये प्राणिनः पुनः पुनर्धाम्यन्तः सुकृतशतैर्महताऽऽयासेनापि दुरापमिदं मानुष्यं निर्धना भूगतं निधिमिव समासाद्य स्वकल्याणं १ लोकं लोकं दृष्ट्वा दृष्ट्वा । ॥३५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy