________________
श्रीजैन कथासंग्रहः
श्रीकयवन्नाचरित्रम्।
॥३४॥
दिवसानि क्वाऽगाः ? तृतीयोऽवदत्-अये पित: ! पितामही मां प्रत्यहं भीषयते, तां कथं न वारयसि ? तुरीयोऽवक्-मया विना पुरा जात्वपि नाऽभुङ्क्थास्तहि सम्प्रत्येकाकिना त्वया कथं भुज्यते ? इत्थं लपन्तस्ते चत्वारः शिशवस्तां मूर्तिमुत्थापयितुं लग्नाः । तात ! उत्तिष्ठ, निजगृहे चल, अत्रैवमुपवेष्टुं न दास्याम इत्यूचिरे च । एतदाश्चर्यविलोकनेन विस्मितोऽभयकुमारः सत्यमेते शिशवः स्त्रियश्चैताः कयवनाशाहस्यैवेति निश्चिकाय । तदनु तां वृद्धांता: कान्ताश्च पृथगेकत्र भवने लात्वा सकोपं पप्रच्छअरे! कस्यैते शिशवः, इमा वनिताश्च कस्येति ? तथ्यं ब्रूहि, असत्यं वदिष्यसि चेच्छूलिकां दास्यामि। इति शृत्वा सा वृद्धा यथाजातं तत्सर्वं सत्यमवादीत् । ततः स कुमारः धनभवनादिसहिताः ससुतास्ता: कान्ताः कयवन्नाशाहाय दापितवान् परं कृपालुः कयवनाशाहः वृद्धेयं दुःखं माऽधिगच्छत्विति धिया धनादिकं तस्या एव मुक्तवान् । ततः सप्तरमणीभिः सत्रा सुखमनुभवन् कयवन्ना प्रत्यहं सतां प्रीतिमिव सम्पत्तिमेधयन्नासीत् । यत्र पुण्यमस्ति तत्र सर्वमित्थमेव जाजायते। उक्तञ्च- सुकुलजन्मविभूतिरनेकथा, प्रियसमागमसौख्यपरम्परा। नृपकुले गुरुता विमलं यशो, भवति धर्मतरोः फलमीदृशम् ॥
येन पुंसा धर्मतरुरारोप्य प्रावर्धि तस्येदृशं फलं भवति-किलोत्पद्यते । तथाहि-सुकुले जन्म, अनेकथा-बहुप्रकारा विभूतिरैश्वर्यम्, प्रियजनसमागमेन सौख्यपरम्परा-सातत्येन सुखानुभूतिः, नृपकुले
॥३४॥