________________
श्रीजैन कथासंग्रहः
श्रीकयवनाचरित्रम्।
॥३३॥
SIM
कदाचित्कनकसूत्रं दृषदि संस्थाप्य स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तैः राजपुरुषस्तत्र कोटरे दृश्यमानः कृष्णसर्पो व्यापादितः । अतोऽहं ब्रवीमि उपायेन हि यत्कुर्यादित्यादि।
तदनन्तरमभयकुमार एकं रमणीयतमं भवनं सुसजितं कारयित्वा तन्मध्ये समुचितासने कयवनाशाहस्यानुरूपां मनोहरां मूर्ति संस्थाप्य सर्वत्रनगरे पटहं वादितवान्-यदयं चतुर्वदनो महावीरः । साक्षाच्चिन्तामणिरिव सकलमनोवाञ्छितं ददाति, अतः सर्वरेवाऽऽबालवृद्धस्त्रीपुरुषैरत्रागत्य द्रष्टव्यः। तदैकं प्रत्यक्षफलदातृत्वं तत्रापि राजशासनमिति सकला अपि बालवृद्धस्त्रीपुरुषास्तत्रागमाऽऽगमौ कत्तुं लग्राः । तस्मिन्नवसरे प्रागेवाभयकुमार. कयवनाशाहच तत्रागत्योपाविशताम् । क्रमिकागताँल्लोकान्प्रेक्षमाणः कयवनाशाहः प्रथमं तां वृद्धां, तदनु ताश्चतस्रः कान्ता: ससुताः सम्प्रेक्ष्य समुपलक्षयाम्बभूव, परमेताः किमपि नाऽभाषिष्ट, मौनमेव शिवाय । ता अपि तां मूर्तिमालोक्य किञ्चिद्विहस्यौदास्यमापेदिरे । तत्रैवावसरे ते चत्वारः सूनव आलोक्य समाश्लिष्यन्तः पिताजी पिताजीति जल्पन्तस्तदीयं वसनमाक्रष्टुं प्रारेभिरे । तत्रैकोऽवक्-तात ! अव किमभवत्, येन न भाषसे न वा हससि ? द्वितीयो जगाद-पितः ! पुरा त्वं क्षणमपि निजोत्सङ्गान्मां नो पृथक् कुर्वीथाः एतावन्ति
AAAA
॥३३॥