________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥३२॥
अर्थकदा कयवन्नाशाहस्य प्राग्भूतानां चतसृणां रमणीनां तावतां पुत्राणां स्मृतिर्जाता, तदवलोकनाय नितरामौत्सुक्यमप्यजायत, परंतदालये तिष्ठन्नपि द्वादशवर्षाणि गृहादहिः कदापि नाऽगात् । तदावासमजानानः सर्वमेतदभयकुमाराय सुहत्तमाय व्याचख्यौ । तदैनं कुमार एवमवादीत्-सखे! धैर्यमाधेहि किञ्चित्कालमपेक्षस्व, अवश्यमहमचिरादेव त्वां त्वत्पुत्रकलत्राभ्यां सङ्गमयिष्यामि । यद्यप्येतदतीवदुष्करं जानामि तथापि केनाप्युपायेन तत्साधयिष्याम्येव। यदुक्तम्-उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमैः । काक्या कनकसूत्रेण, कृष्णसपों निपातितः॥१॥
तत्कथा चैवम्-कस्मिंश्चित्तरौ वायसदम्पती निवसतः । तयोश्चापत्यानि तरुकोटरावस्थितकृष्णसर्पण खादितानि। ततः पुनर्गर्भवती वायसी ब्रूते-स्वामिन् ! त्यज्यतामयं तरुः । अत्र यावत् कृष्णसर्पस्तावदावयोः सन्ततिः कदाचिदपि न भविष्यति । वायसो ब्रूतेप्रिये ! न भेतव्यम् । वारं वारं मयैतस्य महापराधः सोढः, इदानीं पुनर्न क्षन्तव्यः । वायस्याह, कथमनेन बलवता साद्ध भवान् विग्रहितुं समर्थः ?; वायसो ब्रूते-अलमनया चिन्तया। वायसी ब्रूते-तहिं यद् कर्तव्यं तद् ब्रूहि । वायसोऽवदत्-प्रिये ! अत्राऽऽसन्ने सरसि राजपुत्रः सततमागत्य स्नाति, स्नानसमये तदङ्गादवतारितं तीर्थशीलानिहितं कनकसूत्रं चञ्च्वा धृत्वाऽऽनीयास्मिन् कोटरे धारयिष्यामि । अथ
॥३२॥