SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीजन कथासंग्रहः श्रीकयवन्नाचरित्रम्। ॥३१॥ . कोऽपि सेचनकमेनं गजेन्द्रं ततो मोचयिष्यति तस्मै बहूनि धनानि निजां पुत्रीञ्च दास्यामि । तच्छुत्वा स 'कान्दविको दथ्यौ-यन्मया महार्ह रत्नं लब्धं तदस्मिन्नवसरे समुपयुज्येत चेन्मे महानेव लाभो जायेत । इति निश्चित्य तद्रत्नं लात्वा तत्रागत्य तद्रलं जले प्राक्षिपत् । तत्प्रभावान वारीणि दूरमुपगतानि, तदनु गजपाधै तन्मुमोच । तत्प्रभावात्ततोऽतिदूरङ्गते नीरे तत्कालमेवैनं मुक्त्वा स जन्तुः पलायत । यतो यादसांबलं पयस्येव तिष्ठति, ततोऽनामयः सेचनकः स्वस्थानमागात्, नरनाथश्च तदुपरि भूरि प्रासीदत्तराम् . । परमेतदत्याश्चर्यम्प्रेक्ष्य कुशाग्रधीरभयकुमारो व्यमृशत्- यदीदृशसाधारणकान्दविकोकसि किलेदृशभहाहरलेन जात्वपि नैव सम्भवितव्यम्, 'धन्वभूमौ कल्पशाखिनेव । किन्त्वमुष्य रत्नस्य केनचिदन्येनैव प्रभुणा भाव्यम् इत्यवधार्य तमन्वियमाणः प्रान्ते तन्नायकः कयवन्नाऽऽख्य इत्यबोधि सः । अत एव राजकन्यां तेनैव पर्यणीनयत्, प्रभूतं धनादिकं च ददिवान् । ततोऽसौ सर्वत्र कयवनाशाह इति नाम्नाऽपप्रधत्, मान्यश्च सर्वेषां पौराणाम्मध्येजायत। तद्नु रतिमपि लजयन्तीभिस्तिसृभिः प्रेयसीभिः सत्रा कयवनाशाह स्वैरं भोगं भुजानः प्रामोमोदीत्तमाम् । ततः प्रभृति प्रधानमन्त्रिणाऽभयकुमारेण साकं गाउंसौहार्दमप्यधिष्टतमामेतस्य । १ बलरहित भूमि। ॥३१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy