________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥३०॥
BEEGRICK
द्वितीयेन छात्रेण साकमेकत्रोपविश्य मोदकमभनक्, तन्मध्यादेकममूल्यं महारत्नमुच्छल्य किछिद्रेऽपप्तत् । अतिभासुरं तद्रत्नं गृहीत्वा कोऽपि कान्दविकशिशुः पलायाचक्रे, तदनुपदं स्वकीयं तदादातुं कयवनाऽऽत्मजोऽपि दधाव । कियदूरं गत्वा स शिशुः स्वापणे प्राविशत्तदा तत्राऽऽपणेऽसौ रोरुद्यमानोऽतिष्ठत्, कुतश्चिदागत: 'कान्दविकस्तत्कारणं विदित्वा निजपुत्रस्य पाणौ बहुमूल्यकमलभ्यं रत्नमालोक्य तल्लात्वा गुप्तस्थाने न्यस्य रुदन्तं तं बालकं प्रचुरमिष्टान्नदानेन प्रासीसदत् । इतश्च मध्याह्नवेलायां पत्नीभ्यां सहितः कयतना चिखादयिषया मोदकाँस्तानभाङ्क्षीत्तदा तन्मध्ये रत्नत्रयीं बहुमूल्यकामपश्यत् । तदनु तानि रत्नानि विक्रीय नानाविधान्महतो व्यापारान् प्रकुर्वन् बहूनि द्रव्याण्यार्जयन्नत्यल्पेनैव दिनेन महेभ्यपदवीमियाय। अथैवं सकलर्द्धिकस्ताभ्यां सुशीलाभ्यां पत्नीभ्यां परमं सुखमनुभवन् सुखेन कालं व्यत्येतुं लग्नः। - अथान्यदा राज्ञः श्रेणिकस्य प्रेयान् सेचनकनामा द्विपेन्द्रः सरसि जलं पिपासिषुरायातः । तत्रान्तःप्रविशन्नेकेन बलीयसा जलजन्तुना गाढमाक्रामि। तदवस्थं तमालोक्य तन्मोचनाय लोकैरनुष्ठिताः सकला अप्युपाया मुधैव जज्ञिरे । ततः खिद्यमानेन नरनाथेन प्रतिचतुष्पथं तत्र नगरे पटहो वादितः-य: १ कान्ददिकः - कंदोई
MAINMMANA
॥३०॥