________________
श्रीजैन कथासंग्रहः
॥२९॥
Ta
विलोकमानस्तस्यामेव खट्वायामतिमलिनजीर्णकन्थायां पतितं स्वमपश्यत् । तत्रावसरे दध्यौ किमयं स्वप्नः तथ्यो तथ्यो वा ? यदिदानीं ता मे चतस्रः प्रेयस्यो न दृश्यन्ते, न वा ते चत्वारः शिशवः प्रेक्ष्यन्ते ? प्राहं सांयात्रिकेन सार्धं देशान्तरे व्यापत्तु रात्रौ गृहान्निर्गत्यात्रैवाऽस्वाप्सम्, तदपि नालीकं, किन्तु तथ्यमेव, तर्हि यदभून्मे मनोरमाचतुष्टयीसुखानुभूतिः पुत्रैश्चतुर्भिः सह चिरमाह्लादस्तदेतत्स्वप्नोपममेव मन्येत किम् ? नहि नहि स्वप्नावलोकितं जाग्रत्कोऽपि नो वीक्षते मया तु जाग्रताऽपि ताः कान्ताः पुत्राश्च चिरं लालिताः तर्हि भ्रान्तिर्वा कथं मन्येत ? इत्थमुत्कटकोटिकया कल्पनया भ्रान्तोऽसौ कयवन्नास्तद्देवालयार्चकेनोपलक्षितः स्वसदनमानीतः । तत्रागत्य सदनान्तः प्राविशत्रेकं द्वादशवर्षीयं डिम्भमद्राक्षीत् ।
वाचकाः ! कोऽयं शिशुरिति युष्माभिर्नावेदि । अतो वेदयामि यदाऽसौ कयवन्ना विदेशमगमत्तदा जयश्रीरन्तर्वत्नी किलाऽऽसीत्, सैव काले पुत्रं प्रासोष्ट, स एवाद्य द्वादशवार्षिको जातः । समायातं कान्तमालोक्य प्रमुदिते ते द्वे पत्न्यौ तदभिमुखमागत्य सत्कृतवत्यौ । तत्रावसरे महताऽऽनन्देन निजानुभूतमत्यद्भुतमुदन्तं पल्यग्रे वक्तुं प्रववृते सः । तावच्छालां यियासुः शिशुर्भोजनमयाचत, तदाऽसौ ग्रन्थिमुन्मुच्यैकं मोदकं तस्मा अदात् । तं नीत्वा शिशुर्लेखनशालामाययौ, याते च मध्याह्नावकाशे
श्रीकयवनाचरित्रम् ।
॥२९॥