________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥२८॥
ENTERTAINMENT
चैधित्वा लेखनवाचनादौ पाटवमुपगतेषु सा वृद्धा मनस्यशोचत्-यन्मे सत्सु चतुर्षु योग्येषु पौत्रेषु कथमपि मामकं धनभवनादिकमवनीजानिर्लातुं नाहत्यतः पुमानयं गृहादहिरेव कर्तव्यः, इत्यवधार्य ता आख्यत्
वध्वः! यदर्थमयमानीतस्तत्त्वसेधीत्, सम्प्रति यातेषु भवतीनां पुत्रेषु पुंसोऽस्यापेक्षणं नैवास्तीति हेतोर्यतः . स्थानाद्यथाऽर्कवर्षात्प्रागयमानीतस्तथैव तस्मिन्नेव स्थानेऽसौ मोक्तव्यः । तदा ता चिरे-अये श्वश्रूः ! किमेवमघटितं भाषसे ? यं निजगृहमानीय पतिम्मन्यमाना वयं पुत्रवत्योऽभूम, धनसदनयो रक्षाञ्च कृतवत्यः, येन सत्राऽर्कमितानि वत्सराणि पत्येव निस्त्रपाः सुखमन्वभूम तमिदानीमधमा इव कथं त्यजाम: ? इत्थं ताभिर्निगदिते सा वृद्धा महाकोपाऽऽपं दर्शयन्ती जगाद-अरे ! किमेवं भवत्य एव ममापि श्वस्त्रोऽभूवन् ? यद्येनं चिरमत्र स्थापयिष्यथ तहिं नूनमयमेव सकलधनभवनादेर्नायको भविष्यति, अतस्तूर्णमेवाऽसौ निष्कासनीयः सदनादस्मात्तथा करणे मनागप्यालस्यं मा विधत्त । किन्त्वस्यां रजन्यामेवैतद् विदधीध्वम् । ततस्तास्तथैव करिष्याम इति तामाभाष्य गुप्त्या चान्तःक्षिप्तमहार्हरत्नांश्चतुरो मोदकान्निर्माय ताँश्च तदुत्तरीये बद्ध्वा निशीथे गाढनिद्रायां मनमेनं तस्यामेव खट्यायामारोप्य तामुत्थाप्य तस्मिन्नेव देवालये गत्वा मुमुचुः।
उपसि देवालये सञ्जातघण्टारवश्रवणात्कयवन्नाऽजागरीत्तमाम्, तूर्णमुत्थाय तत्राऽऽसीनः परितो
॥२८॥