________________
श्रीजन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥२७॥
. अद्यावधि ममेव वस्तावन्ति वर्षाणि नैव जातानि, अत एव व्यावहारिकं कौशल्यं भवतीनामिदानी कथमुदीयात् ?, अद्य यद्ययं पन्था मम न स्फुरेत्तर्हि वर्भोक्तुमपि व: काठिन्यमेव जायेत, सकलं धनभवनादिकं राजसादेव स्यात्, अत एव मया यदकारि तद्विमृश्यैव, तत्र लेशतोऽपि मा संशयीध्वम्, न वा शिरांसि धुनत, किन्तु मामकीमायतौ श्रेयस्करी शिक्षा सहर्षमुरीकृत्य यूयमानीते योग्यतमपुरुषेऽस्मिन् भर्तृधियं कुरुत, अमुं बह्वीमतिगाढप्रीतिं दर्शयत । अहमपि पुत्रस्नेहमेव वितनिष्यामि, यथाऽयमाशु भवतीनां चिरतरबहुतरपरिचयेन गाढप्रेम्णा निजमतीतं सर्वमेव विस्मरिष्यति, परकीये सदने वर्ते, विजातीये वा निवसामीत्यादिकल्पना सकलाऽपि मानसे कदापि नोदेष्यति। यन्त्र गृहे पुराऽऽसं तदिदं नास्ति, एते मदीयकुटुम्बवर्गादन्ये सन्तीत्यादि सर्वाऽपि भावना यथा स्वप्नवद् भासेत तथा भवतीभिर्विधातव्यम् । एष एव ममोपदेशः परिणामहितकरः सर्वाभिरवश्यमेव ग्राह्यः, नो चेदायती महती हानिर्बोभविष्यतीति तथ्य जानीत । इत्थं श्वश्रूवचसा ताश्चतम्रो युवतयस्तभीत्या नवनीतमिव मार्दवं नीताः शनैः शनैः प्रवृद्धपरिचयरागोदयादिना कयवन्नाऽऽख्ये तस्मिन् पुरुषे दाम्पत्यभावं वितेनिरे । ततो भवितव्ययोगप्राबल्यादसौ पुमान् परिपूर्णतारुण्यलावण्याम्बुवापिकाभिस्ताभिश्चतसृभिः सार्थ भोग भुञ्जानो द्वादशमुहूर्त्तवद् द्वादशवर्षाणि व्यत्यैष्ट, जज्ञिरे च तासु तस्य चत्वारः पुत्राः, एषु
॥२७॥