________________
श्रीजैन कथासंग्रहः
श्रीकपवनाचरित्रम्।।
॥२६॥
? द्वितीया न्यगादी
अरे! एवं जातुचिदपि न भवितुमर्हति, किमेकस्मिन् भवे भवदयेन भवितव्यम्, कुलजानां ललनानांतु कदाऽप्येवं नो युज्यते, याश्च नीचकुले जायन्ते तासामेवैवं घटते, वयन्तु सत्कुले समुत्पेदिमहे तहि येन केनापि पुंसा सत्रा पतिसम्बन्धं कथं कुर्मः ? तृतीया जल्पितवती- सख्यः! सर्वमेतत्सत्यमस्ति परमेषा रण्डा यद्वक्ष्यति तदेव सर्वासां करणीयं भविष्यति, तद्विरुद्धं त्वेकपदमपि चलितुं नैव प्रभवामः । न वा तस्या अग्रे किञ्चिदपि वक्तुं शक्तिं बिभराम । चतुर्थी जगाद - वयस्यः ! एषा नरपिशाची त्वस्माकं हृदयमपि कृन्तेत्तदाऽपि तदने किमपि कर्तुं न पारयामः। . इत्थमालपन्तीषु तासु सा वृद्धा तत्राऽगतवती, तामालोक्य ता मौनं भेजिरे । परमेषा तासां मुखादिचेष्टया ज्ञातवती, यदेताः किमपि परामृशन्तीति तेन प्रचण्डतां वितन्वती साता इत्याख्यत्-अत्र मिलित्वा किं वण्टयथः' ? सत्यं जानीत यन्मत्परोक्षे भवतीभिः कृतोऽपि विमर्शः कदापि नैव फलिष्यति, यदनुष्ठेयम् तन्मत्समक्ष एव मन्त्रयत । मदाज्ञामृते भवतीभिरेकपदमपि गन्तुं नैव शक्यते।
॥२६॥
१वण्ट् - १०