________________
श्रीजैन कथासंग्रहः
॥२५॥
उत्तिष्ठोत्तिष्ठ, 'आह्निकं कर्माऽऽशु विधेहि ।
इत्थ वृद्धायाः प्रपञ्चकल्पना तु कयवन्नामनः प्रोद्भुताश्चर्योदधिमुच्छालितवत्येव, अत एव स गम्भीरविचारे पपात यदहं सदनस्यास्य न प्रभुः । निगदति चेयं वृद्धा मां पुत्रम्, परमेतज्जात्वपि नैव घटते । कथमेतां रम्भोपमां स्त्रीचतुष्टयीं स्वीयां मंस्ये, मम तूभे पत्न्यावेव स्तः । ते अपि ताभ्यो भिन्न एव । कथमीदृशो व्यत्ययो सहसैवाऽजनि ? किमहं स एव कयवन्नाख्योऽस्मि, अन्यो वेति संशये समुदिते 'कतिपयात्मीयविनिर्णीतलक्षणदर्शनान्निश्चीयते - यत्स एवाऽस्मीति परन्तु किमर्थं केन वेदृशमहाद्भुतामायारचनाऽकारीति नो ज्ञायते, सुषुप्तौ खलु तादृशस्वप्नावलोकनाद्भविष्यतः कल्पनां कुर्यां चेत्तदपि नो घटते । यतः स्वप्नो हि निद्राणस्यैव सम्भाव्यते, अहमधुना प्रबुद्धोऽस्मि भ्रान्तिर्वाऽज्ञाने जायते । नाहमज्ञानी, इत्थं नानाविधकल्पनया यत्समाधेयं तदबोधि कयवन्नाख्यः ।
इतश्च ताश्चतस्रः युवत्यो रहसि गत्वा किमपि मन्त्रणां मिथः कर्तुं लग्नाः । तासु प्रथमा जगाद - भगिन्यः ! वाण्डा सर्वा अपि नः स्वसदृशीरेव विधित्सति किम् ? कथमानीतमेनं पुरुषं पतिं कर्तुमर्हामः
१ आहिनकं दैवसिकं
श्रीकयवन्ना
चरित्रम् ।
॥२५॥