________________
श्रीजैन कथासंग्रहः
श्रीकयवनाचरित्रम्।
॥२४॥
मत्या चैकवारं महौजसमपि पुमांसं जयन्ती समासीत् । पुत्रवधूष्वपि निजप्रतापं तथा पातयामास यथा तदादेशमन्तरा पदमेकमपि चलितुं न शेकुस्ताः, तस्याः पुरस्तात् किमपि वक्तुमपि ता नैव प्रभवन्ति स्म, अस्या आदेशादेव ता इदमप्याचेरुः । अस्या मार्जारनयनमिव नयनं, राक्षसीसममाननं विलोक्यैव ता युवत्यो नितरां बिभ्यति स्म, अत एव दास्य इव तास्तदादेशमशेषमकार्यमपि कृतवत्यः । ततः प्रभाते जाते पानी निजैः कनकतुलितैः करैरशेषां क्षितिं स्वर्णाभां वितन्वाने कयवन्ना जजागर। तदा दृशमुन्नीय चतुर्दिक्षु पातयनकस्मिन्नतिभासुरे मनोहरे दिव्यागारे स्वं सुखासीनमपश्यत्, पर्याऽधस्तादुपविष्टाश्चतस्रो युवतीरनिमेषं स्वमेव प्रेक्षमाणा अदर्शत् । यतो हि सा वृद्धा तेन सहालापादिकर्तुं ता आदिष्टवती। एकमपूर्व देवविमानोपमं भवनं द्वितीयां तत्राऽभूतविधायिचित्रादिशोभाञ्ज विलोक्य विलोक्याऽसौ चकितो जातः । तदा दप्यौ किमयं स्वप्नः सत्यं वा असत्यम् ? अर्थादहं जागर्मि ? निद्रामि वा ? पुरा कदापि या नालोकितास्तांस्तरुण्य एताः काः ? भवनचादः कस्य ? इयती सम्पत्तिः एताः कान्ततमा मनोरमा विमानकल्पं भवनञ्च मम नैवासीदित्येवं यावद्विमर्श करोति तावत्तत्रागत्य सा वृद्धा जगादवत्स ! अद्य ते जागरितुमियान् प्रमादः कथं जातः ? प्रत्यहं सूर्योदयात् प्रागेव किलोत्थाय प्राभातिकं कर्म कुर्वन्नासी:, कथमेतास्ते कान्ता अपि कामविलासायासशिथिलास्त्वां न जागरयाञ्चकः?, पुत्र !
॥२४॥
.