________________
श्रीकयवत्रा--
श्रीजैन कथासंग्रहः
चरित्रम्।
॥२३॥
प्रेक्षमाणास्ताः कान्ताः पश्चापि तन्मन्दिरान्तिकं समाययुः, तास्वेका वयोवृद्धाचतम्रश्च तारुण्यपरिपूर्णा आसन् । वृद्धा च घृतपाणिदीपा तत्र देवालये समागत्य मञ्चकोपरि सुप्तमेकं पुरुषमद्राक्षीत्, आकृत्या च तं पुमांसं कुलीनं भव्यञ्चाऽबुध्यत । तदनु सा वृद्धा ताश्चतस्रोऽपि तरुणीराकार्याऽऽज्ञापयाजकारअये तरुण्यः ! अद्य भगवान् प्रससाद, सिद्धश्च मे मनोरथः, यूयं तूर्ण सखट्रमेनं पुरुष सुखसुप्तमुत्पाट्य स्वीयं सदनं नयत, विलम्ब मा कृषत, इति वृद्धोक्तिमाकर्ण्य तत्कालमेव तास्तथा विदधिरे, सा वृद्धा च दीपेन मार्ग दर्शयन्त्यग्रे चचाल। ताश्च तां खट्वां मनागप्यकम्पयन्त्यो मौनमेव भजन्त्यस्तामनुजग्मुः। वृद्धाया भीत्या द्रुतमेव तास्तं मञ्चकं सपुरुष स्वसदनं निन्यिरे।
भो भव्याः! ता युवत्यः का आसन् ? इति निवेदनमन्तरा वः कथास्वादो नोदेष्यतीति मत्वा तासां परिचयो दीयते; इमाः खलु तस्या वृद्धायाः पुत्रस्य पत्न्य आसन् । तस्यामेव रजन्यां द्वित्रिघट्या: प्रागेव तस्या एकस्तरुणो निरपत्यश्च पुत्रः सरीसृपेण दष्टो ममार । गृहे च तस्याः समृद्धिर्महीयसी ववृते । तदानीन्तनराजभीत्या मृते च निरपत्ये सुते सर्व धनं राजाऽऽत्मसात् करिष्यति लुण्टाको वा सर्वमेतदपहरिष्यतीति भिया सा वृद्धा किलैवं प्रायतत । सा खलु खीजातीया भूत्वाऽपि निजीजसा १सरीसृपेण - अहिना।
ARSBREE
॥२३॥