SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीकयवत्राचरित्रम्। ॥२१॥ विक्रीय गृहव्यवस्था विधीयताम् । इत्याश्चर्यमालोकमाना जयश्रीर्यावच्चकिताऽभवत्तावत्तामपि देवदत्ता सादरं ज्यायसी भगिनीमिव प्रणनाम, मधुरया गिरा व्याजहार च । तत्रावसरे उभे ते सोदरे भगिन्याविव मिशः काशिदगदनीयामेव प्रीतिं प्रापतुः, सापत्न्यञ्च विहाय मनसीलिवमपि नानीय द्वे अपि नितरां मुमुदाते । तदा तयोः प्रमोदसागरः सीमानमौज्झत्, ते च प्रमुदिते विलोकमान: कयवन्नाऽपि नितरां तुतोष, प्रेममूर्तिभ्यामाभ्यां सह सुखमनुभवन् समयं व्यत्येतुमलगत्। ___ अवैकदा कयवना देवदत्ताऽऽनीताऽऽभरणं कचिदापणे विक्रीय तदर्ध पत्नीद्वयनिर्वाहायाऽतिष्ठिपत्, अनच व्यापर्तुमैषीट् । अथैकस्मिन् दिवसे कस्यचिदेकस्य सांयात्रिकस्य पोतो जिगमिषुरस्तीति श्रुत्वा तस्मिन्नेवोपविश्य व्यापारविधित्सया देशान्तरं यियासुरभवत्, अत एव गृहव्यवस्था विधाय द्वे अपि पल्यौ समाहूय वक्तुमारेभे-अयि देव्यौ ! सम्प्रति धनोपार्जनाय देशान्तरं जिगमिषामि, अतो युवां तावन्मामकं वियोगं सुखेन सहेवाम्, निजाचारपालनतत्पराभ्यां भवतीभ्यामवसरे धर्मोऽप्याराधनीयः यथावकाशं सामाजिकाः स्त्रिय एकत्रीकृत्य स्वीयसद्विचारः प्रवर्तनीयः । प्रेयस्यौ! त्वादृशकलाकुशलचतुरतरललनाः किमन्यत्कथयामि? ॥२१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy