________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥२०॥
नैव कामये। इत्थं कयवनां जिहासन्त्या तयाकया सह पौनःपुन्येन सा देवदत्ता कलहायमानाऽऽसीत् ।
यदाऽसौ वृद्धोक्तं नैव चक्रे तदा साऽका तनिष्काशनोपायं शोचन्ती प्रान्ते चैकस्मिन् दिवसे कयवनां परुषमेवमाचचक्षे- अरे ! कीदृशोऽसौ निस्त्रपो मनागप्यस्य शरीरे लजा नोदेति । हहो ! मातापित्रोर्मृत्यौ सत्यामप्यसौ स्वगेहमेतुं नेहते, ईदृशस्य पशुकल्पस्य जन्मना केवलं क्षितिरेव भाराक्रान्ता बोभवीति । इति दुःसहां कटूक्तिं समाकर्ण्य तत्कालमेव स्वगेहम्प्रत्यचालीत्सः । निर्याते चामुष्मिन् सर्वमेतद्विदित्वा चेखिद्यमाना सा देवांग अकार्य भृशञ्चुकोप । इतश्चाऽसौ निजप्रेयस्या जयश्रिया साकं यावदालपति तावत्सर्वाऽऽभरणमण्डिता काचिदेकाऽबला तत्रागत्य पुरतस्तस्थौ, अभ्यधाच्चप्राणेश ! शशाङ्क विना चन्द्रिका चेत्तिष्ठेत्तर्हि त्वां विनाऽहमपि तिष्ठेयम् । त्वञ्च मां सुखेनाऽत्याक्षीः, अहन्तु भवन्तं प्राणनाथं नैव त्यजामि, यावजीवं तत्रभवतो स्थास्यामि, दासीभूयैव अभ्यर्थये चैतदेव यत्पुनरोऽप्येवं मा त्याक्षीः । अये सुज्ञाः! सा देवदत्ता अकया सह कलहं विधाय कयवनांप्रेयांसमपश्यन्ती तदालयं वनमिव दुःखदमवगच्छन्ती सारभूतान्याभरणानि महार्हाणि वसनानि च लात्वा कयवन्नासदनमागात् । तत्रागत्य कुड्मलीकृत्य च पाणी निधाय च तदने तान्याभरणानि न्यगादीदेवम्जीवितेश ! एतानि पुरा त्वयैव दत्तानि, अग्रेऽपि सह देहेन चैषां स्वामी त्वमेवाऽसि, अत एतानि
॥२०॥