SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कवासंग्रहः ॥१९॥ तामनुरक्तामपि त्यक्तवान् कयवन्नेति ? इत्थं जानीत- यदाऽमुष्य गृहे निःस्वतां नीते तत्प्रेयसी स्तोकमपि 'धनं तस्यै प्रेषितुं नो शशाक, तदा तं निर्धनं जानाना तदक्का देवदत्तामेवं प्राह-वत्से ! एतस्य सदनात्कोऽपि किमपि नैव प्रेषयति, अत एनं र जहीहि, सदनाच्च निष्काशय, या खलु त्वादृशी रूपाजीवा विलसति सा जात्वपि निर्धनं नो भजते, किन्तु सधनं दातारमेव । यथा शाखापत्रादिना वियुक्तं वृक्षं चिरमुषिता अपि पक्षिणस्तत्कालमेव जहति, जलैर्विहीनं सरो वा पथिका उज्झन्ति । वेश्या तु धनलिप्सयैव मुधाप्रेमाणं बहिराविष्कुरुते, न कदाचिद् वास्तविकम्, यावदेव धनं प्रभूतं प्रयच्छेत्तावदेव तस्मिन्ननुरागिण्या भवितव्यमित्येव वेश्यानां कुलपद्धतिर्वर्त्तते, निर्धनतामुपगतस्य पुरुषस्य मोहे तु नैव पतितव्यमिति वृद्धोक्तिं सा देवदत्ता साधीयसीं नाऽमंस्त । यस्मादेषा तेन सत्रा यावज्जीवं प्रीतिमकार्षीत्सा खल्वन्यादृशीव धनमात्रकाङ्क्षिणी नाऽसीत्, किन्तु प्रेम्ण एव कामुकी। अत एव सकोपं तामाह अक् ! यथा भणसि तथाकर्तुं नाहं शक्नोमि मनुष्याणामुत्तमानां चित्तं द्वैविध्यं न धत्ते किन्त्वेकाकारमेव । येषां मनः प्रतिक्षणं विविधसंयोगवियोगविधित्सया चक्रवत्परिभ्राम्यति तत्तु न मानवीयं किन्तु पाशवमेव विदाङ्कुरु । मया तु यावज्जीवं निजमनस्तस्मिन्नेकस्मिन्नेवाऽऽर्पितम्, तत्र वैपरीत्यं कदाप्यहं नैव करिष्यामि । या च तथा चिकीर्षति साऽधमाधमतामन्धताञ्च लोके प्रथयतितमाम् । ततोऽहमन्यं दातारं गुणिनं वा श्रीकयवनाचरित्रम् । ॥१९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy