________________
श्रीजैन कथासंग्रहः
॥१८॥
XXXXX
दुर्गतिप्रदायके कुमार्गे प्रवर्तमानः स एवाहमज्ञानान्धोऽस्मि । प्रेयसि ! त्वञ्च मे गृहदेवतेव पूज्यतमा . वर्त्तसे, कुलजाऽसि, धर्मवत्यसि, धैर्यं दधानाऽसि, सङ्कटे पतित्वाऽपि नूनमुभयकुलनिर्मलकरी विद्यसे, नूनमहं तावकीनाऽतिसमुज्ज्वलशीलप्रतापात्पुनरागतोऽस्मीति जाने । तवेदृशप्रेम्णः परिपूर्णतैव बलादाकृष्य मामत्राऽऽनीतवती। देवि ! यदपराद्धं मया तत्क्षमस्व इति भर्तुः कथितेन सखेदानुनयवचनेन व्रीडया क्षणं नम्रानना जयश्रीः पतिं किमपि वक्तुं नाऽचीकमत, किन्तु कृताञ्जलिः सती भर्त्तारमेवमवादीत् स्वामिन्! अद्यापि किमपि नो गतम्, सकलं पुनरुक्तम्भवितुमर्हति तत्सत्यं जानीहि । इयता विशेषणेन मां गुर्वी मा कार्षीः, यदहं तादृशोक्त्या व्रीडामेव बिभर्मि । अहं ते दास्यस्मि, अतस्तदुचितवचसैव मां भाषेथाः । यश्चाद्यावधि मया दुःखमभोजि तत्रापि लेशतोऽपि तत्रभवतां दोषो न दीयते, किन्तु पुराकृतनिजकर्मणामेव । अतः क्षमाप्रार्थनमपि तव नैव घटते । दैवादागतोऽस्यधुना, तेनानुमीयते यदवशिष्यते मद्भाग्यमपि । यद्यप्यधुना तत्रभवतां गेहे दुर्दशा जाताऽस्ति, परमायतौ सर्वं . परिपूर्णतामेष्यति तत्र संशयो नो कार्यः । यदावयोरन्तरात्मा विशुद्धः शुभभावकश्च वर्वर्त्ति । इत्थं कृतपश्चात्तापं भर्त्तारं सा जयश्रीराश्वासयामास ।
इतश्च सा देवदत्ता वाराङ्गना कयवन्नोपरि भूयसीं प्रीतिं कुर्वाणाऽऽसीत्, तर्हि किमभूत्, येन
श्रीकयवनाचरित्रम् ।
||१८||