________________
श्रीजैन कथा संग्रहः
॥१७॥
सीताकपीन्द्रक्षणदाचराणां सुग्रीवरामप्रणयप्रसङ्गे । राजीवहेमज्वलनोपमानि, वामानि नेत्राणि परिस्फुरन्ति ॥ ५ ॥ सुग्रीवरामयोः प्रणयस्य- सखित्वस्य प्रसङ्गे समये सीतायाः कपीन्द्रस्यवाले: क्षणदाचरस्य - दशाननस्य च राजीवहेमज्वलनोपमानि कमलकनकदहनाऽऽकारीणि वामानि नेत्राणि परिस्फुरन्ति स्मः । एतेनायतं यत्स्त्रीणां वामाक्षिस्फुरणं
तत्कालभाविशुभफलसूचकम् ।
दुःखस्यान्तमवगच्छन्ती जयश्रीस्तदोर्ध्वमपश्यत्, अकस्मादेवं कश्चित्पुमांस्तत्रागतः प्रेक्षि । असी खलु साधारणवेषं विदधत् सव्रीडः सशोको लोचनाभ्यामश्रुधारां मुञ्चन्नासीत् । एनमालोक्य सा मनस्येवं तर्कयति यदसौ कः केन हेतुना सहसाऽत्राऽऽयातः ?, तदा सोऽजल्पत्- अयि प्रेयसि ! शङ्कां कामपि मा गाः । स एवाहं दुर्दैवविपाकयोगात्त्वामनुरक्तां सुशीलां विहाय कुसङ्गदोषादजवद् गर्हिताचारी निस्त्रपः कयवन्नाभिधोऽस्मि । अहो ! कियांस्ते मया क्लेशोऽदायि, पुराऽप्येकदापि त्वां सुखिनीमकृत्वाऽद्यावधि दुःखाम्बुधावेव न्यमज्जयम् । निजं सुनिर्मलमपि कुलं कलङ्कयन् स एव निर्लज्जोऽस्मि, कुलजामपि स्वीयां त्यक्त्वा वेश्यागारे तदनुरागाच्चिरं निवसन्नवश्यमस्म्यहं नराधमः । मातापितरौ च वियोगाग्निना भस्मसात्कुर्वाणो नूनं नरपिशाच एवाऽस्मि । एवमात्मीयकुलाचारधर्माचाराभ्यां जलाञ्जलिं प्रदाय
श्रीकयवना
चरित्रम् ।
॥१७॥