________________
श्रीजैन कथासंग्रहः
VAD
श्रीकयवत्राचरित्रम्।
॥१६॥
यत्वेदयसि किमेतदुचितं मनुषे ? भवान् गुणवान् विचारवानस्ति, अतो मे ज्ञानादज्ञानाद् वाऽऽ यातमपि मन्तुं क्षमेथाः । झटिति निरपराधिनी चिरविरहिणी जीविताऽऽशामपि त्यजन्ती दासी मामवलोकयेथाः। बहुकालिकतावकीनविरहानलदन्दह्यमाना भवन्ती साम्प्रतमधीरा कथमपि धैर्य मनसि मनागपि धत्तुं नैव पारये । अनवरतं नयनयुगलसम्भूतप्रभूतवारिणा क्लिन्ना तिष्ठामि, किञ्च महति कुले सम्भूय कुलत्रपायै तिलाञ्जलिं दत्त्वाऽतिनिकृष्टवेश्यागारे निवसनं त्वादृशां श्रुतिशालिनां पुंसां लज्जामेव जनयति, -अहन्तु मतिविकला काचिदबला तत्र भवतां दास्यस्मि, अत एव किमधिकं जल्पामि ? प्रियतमे !
मेनके ! तूर्णमुड्डीय तत्र याहि, सर्वमेतत्सन्देशं भर्तारं यथावत्कथय, इति तां सन्दिश्य गवाक्षे समागत्य , तस्थौ जयश्री: ? । तत्रावसरेऽत्यायतं विशालं सदनमालोक्य निर्धनत्वात्प्रेतावासमिव भयङ्करं मन्वाना परितः प्रेक्षमाणा दुःखपूर्णहृदया भृशं सुचिरं रुरोद । तस्मिन्नवसरे कोऽप्याश्वासनकरोऽपि नासीत्, अतश्चिररोदनेन तदीयाञ्चलमपि नितरां चिक्विन्द, सातत्येन रोदनात्तदीये नयनेऽप्युच्छूनेऽभूताम् । तत्रैकाकिनी जयश्रियमधिकं क्रन्दन्ती पुनः पुनरचलेनाऽश्रुधारामपनयन्तीं वीक्षमाणा मेनाऽपि दुःखातुरा रोदितुमलगत् । अस्या रोदनेन जयश्रीरधिकं खेदमाययौ, अत एव धैर्यमवलम्ब्य तस्या अश्रूणि निजामलेन पुण्यामास। तस्मिन्नेवाऽवसरे जयश्रियाः शुभसूचनाय वामाक्षि तीव्र पुस्फोर। तथाचोक्तम्
WALNALIPAANIMAL
BASEASE
॥१६॥