________________
श्रीजैन कथा संग्रहः
॥१५॥
अथैवं स्वीयां दुःस्थितिं विचारयन्ती जयश्रीः शोकसागरे ममज्ज । यदिदानीं मया किमनुष्ठेयम्, कथं वा धर्माऽविरोधेन जीवनं निर्वाह्यमित्यादि बहुधा विचिन्तयन्ती प्रान्ते सा किलेदृश युक्तिं सस्मारयदि सारिका पक्षिणी पत्या चिरं प्रतिपालिता सुपाठिता नरभाषाभाषिणी गृहे तिष्ठति, एनामेव सन्देशहरी विधाय तदन्तिके प्रेषयेयं चेदिष्टं सेत्स्यतीति मन्ये । इति निश्चित्य तदन्तिकमागत्य मेनां शिक्षितुं लग्ना- अयि प्रियसारिके ! बहुदिवसादस्मिन् सद्यनि बालेव सुचिरं मम भर्त्रा प्रतिपाि तिष्ठसि, सति च तस्मिन् बहून् भोगानभुथाः, अत इदानीं तत्प्रतिकारं विधेहि, मम तव च पालयिता सम्प्रति वेश्यासदने वर्त्तते, तत्र गच्छ, मदुक्तं यथावत्तं ब्रूहि हे नाथ ! या ते सहचरी जयश्रीर्वर्त्तते, सा खलु द्वादशवर्षैस्तव वियोगाग्निना दन्दह्यते, तद्दिनादद्यपर्यन्तं त्वामपश्यन्ती निद्रां शृङ्गारं शरीरशुश्रूषणञ्च त्यक्तवती, किमधिकं वदामि ? तस्याः दुःस्थितिं रसनाऽपि नो वक्तुमुत्तिष्ठति, मन्मुखेन त्वामेवं निगदति स्म । यत्-त्वं खलु मदर्थं हंसो भूत्वाऽपि कथङ्कारं काकतामयासीः । नूनमहं स्वर्णधिया त्वामुपेयुषी, परन्तु प्रान्ते पित्तलमेव खल्वभूः । प्राणेश ! मदीयेदृशकर्कशया गिरा कोपं मा गाः किन्तु 'मन्तुमेनं क्षमित्वा त्वदेकशरणामनाथाम्मामनन्यगतिकामव, तावकीनदर्शनपीयूषपानकाङ्क्षिणीं मां चिरं
१ मन्तु पुं. अपराध
श्रीकयवनाचरित्रम् |
॥१५॥