________________
श्रीजैन कथासंग्रहः
॥ १४॥
खिद्यतेतमाम् । इति कयवनोक्तिं लात्त्वा स दूतो यथागतस्तथा प्रतस्थे, आगत्य च सर्वमुदन्तं तौ व्याजहार । तत्रावसरे महादुःखं कुर्वन् वृद्धतमो धनदत्तो वसुमतीमाह- प्रिये ! पुरा त्वं मदुक्तिं नाजीगणस्तत्फलमधुना पश्य, पुत्रं विलासिनं विधित्सती साम्प्रतं पुत्रादपि निरस्ता जाताऽसि । किमधिकं तन्मुखमपश्यतोरावयोर्गतेष्वपि द्वादशवत्सरेषु कुसङ्गात्तत्रैव त्रपां विहाय यदर्थं त्वया सर्वमेतदकारि तां वधूमपि विस्मृत्य निवसति । पुत्रशिक्षायै तथाऽऽचरन्ती भवती वधूश्च सर्वं प्राप्तवती । इत्थं त्रयोऽपि ते ततो निराशाः पश्चात्तापं वितेनिरे । कथं पुनरयं तां विहाय गृहमेष्यतीति विमृशन्तावपि तौ कमप्युपायं नैव लेभाते । ततस्तौ तच्चिन्तयाऽनवरतं खिद्यमानौ जराजीर्णौ नीरक्तीकृतौ निरशनौ भवन्तौ पुत्रशोकादेव मृत्युं निन्याते । तदनन्तरमेकाकिनी जयश्रीः सततं महादुःखं भुञ्जानाऽऽसीत् । इतश्चापणीयकोशात्ते कार्यकर्त्तारो यथाभागं सर्वमात्मसाच्चक्रिरे, यदासीत्सदने तदपि जयश्रीः पत्युरादेशेन तत्रैव वेश्यालये प्रेषितवती । इत्थं नष्टार्था सा जयश्रीरात्मोदरपूर्तिमपि विधातुं दुःखमपश्यत् । तदोपायान्तरमलभमाना तर्कणा तन्तूनुत्पाद्य कालङ्गमयामास । हन्त ! कीदृशं दुर्दैवविलसितमभूत्, येन सुखलिप्सयाऽनुष्ठितः सकलोऽपि तस्याः प्रयासः कष्टायैव यातः । दैवे प्रातिकूल्यमुपगते महतामपीदृश्येव दुःस्थितिर्जायते, यस्मादमी जीवाः सुखदुःखे भाग्यानुसारादेव लभन्ते, यदा यदापंतति तदा तदवश्यं भोक्तव्यमेव सर्वैरपि ।
श्रीकयवनाचरित्रम् ।
॥ १४॥