________________
श्रीजैन कथासंग्रहः
॥१३॥
जया जर्जरीकृतौ स्वः । अत एव त्वां द्रष्टुमत्यन्तमुत्सुकौ स्वः । अतः शीघ्रमायाहि, गृहस्थितमापणीयञ्च सकलं द्रव्यं सम्भालय । अद्य श्वः परश्वो वाऽऽगमिष्यसीति मनोरथं कुर्वाणावावां द्वादशवर्षाणि व्यत्यैष्वा तत्रानागमने महदेवास्त्यावयोर्दुःखम्, अतस्तूर्णमत्रागत्य सर्वं गृहकृत्यं विलोकय, आवां सुखिनौ विधेहि च, त्वदन्यः कोऽपि द्रष्टा नैवास्ति धनस्य गृहस्य चेति त्वामाङ्खातुमागतोऽस्म्यहम् । इत्यनुचरेण निगदिते कयवन्नाऽवादीत्- अरे ! किमेवं जल्पसि ? किमत्र निवसतो मे द्वादशवर्षाणि व्यतीतानि ? अहन्तु तावर्ती रजनीमेव जाने । माता तु प्रेमबाहुल्यान्मामकं विरहं चिरं सोढुं नैव शक्नोति, अतस्तावर्ती रात्रिमपि तावन्ति वर्षाणि जानाति । तदा पुनः सन्देशहारी सचकितमाह-श्रेष्ठिन् ! तव जनन्या द्वादशदिनेषु द्वादशवत्सरस्य विभ्रमो नास्ति, किन्तु 'मारपारवश्येन दिवानिशमेतया वारविलासिन्या ज्ञानविवेकादिमहारत्नमोषिण्या सह रममाणस्त्वमेव द्वादशवर्षाणि गतान्यपि तावन्मात्राणि घस्राणि जानीषे । इति दूतोदितां गिरमाकर्ण्य श्रेष्ठिसूनुराह - भोः ! अस्त्वेवमेव परन्तु त्वमधुना याहि, मम मातापितरौ सप्रणाममेतत्कथय यदागमिष्यति कियद्भिर्दिनैव पुत्रः, कामपि चिन्तां भवन्तौ मा कृषाताम् युवां वीक्षितुमहमप्युत्सुको वर्त्ते, किन्तु सम्प्रति सहसा सुखमेत्तद्विहाय तत्रागन्तुं मनः १ कामदेव ।
श्रीकयवनाचरित्रम् ।
*
॥१३॥