________________
श्रीजैन कथासंग्रहः
॥१२॥
अत एव कयवन्ना शीलशालिनीं नवोढां निजकामिनीमपि विस्मृत्य वेश्याया एव किङकरीभूय तद्रागपाशेन बद्धः पशुरिवैकपदमपि गन्तुं नाऽशक्नोत् । यश्चासीत्प्रथमो विलासी सोऽपि वेश्यारागपाशे श्रेष्ठिनः सुतं गाढमाबद्ध्य श्रेष्ठिनः पार्श्वात्तुष्टिदानं गृहीत्वा कृतकृत्यो जातः । यस्यां वेश्यायां कयवन्ना सानुरागो जज्ञे सा देवदत्ता इति नाम्ना प्रसिद्धाऽऽसीत् । इयं खलु नृत्यादिकुशला भूत्वाऽपि सदाचारिण्येवाभूत् । पुरुषान्तरं नाऽभजत, केवलं कंयवन्नाभिधमेव । अनया सह रममाणस्यामुष्याऽपेक्षितानि द्रव्याणि माता वसुमती प्रेषयति स्म । इत्थं तया सत्रा रममाणस्य कयवन्नाकस्य रात्रिन्दिवसस्यापि भानं नाऽभूत् ।
अथैकदा तया सार्धमट्टालिकायां सानन्दमासीन आसीत्तदा शारदीचन्द्रिकापि तदनुरागमेधयन्ती किलाssसीत् । अत्रान्तरें कश्चिदनुचरोऽधस्तादवोचत-स्वामिनि ! कश्चिदेकः पुमान् कयवन्नाभिधेन सत्रा मिलितुमागात्, भवत्या आदेशश्चेदुपरिष्टात्प्रेषयेयम् । अथाऽऽयातु स पुमान् इति तयोक्ते समायातं भृत्यं तत्राऽऽनयत् । तदा पुरुषोऽवदत्-भोः ! मन्मुखेन तव मातापितरौ यदूचाते तन्निशम्यताम् - हे वत्स! स्वस्त्यस्तु, गृहं त्यक्त्वा तत्र निवसतस्ते द्वादशवर्षाणि गतानि परमद्यावधिगृहाऽऽगमनाय नेहसे, त्वादृशस्य योग्यतमस्य गरीयसि कुले सम्भूतस्य सत्पुत्रस्यैवं नैव घटते, आवां ते मातापितरौ साम्प्रतं
श्रीकयवनाचरित्रम् |
॥१२॥