________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥११॥
मोहमाहात्म्यम्-यः खलु कयवन्ना पुराऽनवरतं शास्त्रचर्चायामेवाऽरंस्त स एवाऽधुना कुसङ्गत्या मदिरां पायम्पायं प्रमाद्यति । आसीच्च यस्य पुरा काव्यादिविनोदपरिशीलनैव सदाऽभूत्तस्यैव साम्प्रतं वाराङ्गनाऽऽलिङ्गनचुम्बनगायनादिविनोद्रेनैव कृतकृत्यता। यस्य च प्राग् वैराग्यादन्यत्किमपि नैवारोचत, स एवाऽधुना श्रेङ्गारिकसङ्गीतरसे किलाऽऽकण्ठं निरमांक्षीत् । यश्च पुरा निजप्रेयसीमपि राक्षसीमिव वैराग्यवासितहृदयदूषिकाममंस्त, स एवाऽद्य रूपाविलासभूमौ पातम्पातं परमानन्दं मनुते । यः पुरा धर्मकथयैव तृप्यति स्म, सोऽयमद्य कुटिलकामिनीभोगविलासेनैवात्मानं तृप्तं मनुते । यत:- आदित्यस्य गतागतैरहरहः सक्षीयते जीवनं, व्यापारर्बहुकार्यभारनिकरैः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमी प्रमादमदिरामुन्मत्तभूतं जगत् ॥४॥आदित्यस्यसूर्यस्य गतागते-र्गमागमैः, अहरहः-प्रत्यहम् जीवनमायुः सङ्घीयते-नश्यति, च पुनः बहुकार्यभारनिकरैः अनेककार्यसकुलापारः कालो न ज्ञायते, कियान् कालो यात इत्यपि नो वेत्ति, लोकानां जन्म जरां विपत्तिं मरणञ्च पश्यतां त्रासो भीति!त्पद्यते, अतोऽनुमीयते-यदिदं जगत् मोहमीमोहात्मिकांप्रमादमदिरांप्रमत्तकरीमदिरां पीत्वा-निपीय उन्मत्तभूतमभूत् । अत ऐहिकामुष्मिकनानाविधां विडम्बनां पश्यन्तः शृण्वन्तश्च लोका धर्म एव न प्रवर्त्तन्ते।
॥११॥