________________
श्रीजैन कथासंग्रहः
श्रीकयवनाचरित्रम्।
॥१०॥
गुणा विनश्यन्ति । अतो नीतिवाक्यानि पौनःपुन्येनाऽऽहूयाहूय लोकान् बोधयन्ति-यद् -भो भव्याः ! यूयं कुसङ्गादिदोषात्सत्सङ्गतिं मा त्यजत।
अहो ! क गोपीचन्द्रस्य मौनवती जननी क च कयवनामाता वसुमती ? एतयोरुभयोर्मेरुसर्षपयोरिवान्तरमस्ति । यस्मात्सा मौनवती विषयासक्तं स्वपुत्रं गोपीचन्द्रमेवं प्रतिबोधयामास । वत्स ! कदाचिदेकदा जगजिघत्सुरसौ बलीयान् कालस्त्वामपि कवलीकरिष्यत्येव, अत एव त्वदीयभोगविलासं दर्श दशं नदीयं लोचनयुगलं दुःखाज्जलं जहाति । हन्त ! एष एव भोगविलासस्त्वां मानुष्यमहत्त्वादधः पातयति, आरोहयति च बलाहुर्गतेः पन्थानम् । अत एनं नरकयातनानायकं विषयभोगं जहाहि, शाश्वतसौख्यप्रदं वैराग्यमेव जुषस्व, इत्थं मातुस्तथ्योपदेशात्तत्कालमेव गोपीचन्द्रो विषयवैमुख्यमधिगत्य प्रतिबुद्धवान्। वसुमतीतु निर्मले सन्मार्गे प्रवृत्तमपि सूनुं महताऽऽयासेन गर्हिते दुर्गतिदायके पथि प्रावर्तयत। हं हो! सदाचारेण पुत्रस्य मातापित्रोः स्वस्य च महानेव लाभो जायते, कुमार्गप्रवृत्त्या तु कियती हानिरुदेतीति प्रायः सर्वेषां विदितमेवास्ति। अतो मातापितृभ्यामात्मजः सन्मार्ग एव प्रवर्तनीयः, न जात्वपि कुपथे वसुमतीवत् । अहो !'
॥१०॥