________________
श्रीजैन
कथासंग्रहः
श्रीकयवनाचरित्रम्।
॥९॥
मधुरं वीणानिनादं तथालिन्यादीनां लयञ्च श्रुत्वा कयवन्नामनो वागुरायां मृग इव प्रतिबद्धमजायत । उक्त-सुभाषितेन गीतेन, युवतीनाश लीलया। मनोन भिद्यते यस्य, स योगी ह्यथवा पशुः॥२॥ -मधुरगानेन स्त्रीणां शृङ्गारजैः कटाक्षादिचेष्टितैर्यस्य मनश्चित्तं न भिद्यते-नो चलति स पुमान् योगीजितेन्द्रियः, अथवा पशुरिति । अथ तत्र वसन्तोत्सवे कयवनाऽभिधस्य श्रृङ्गारिकत्वकरणे युवतीनां नृत्यं हावभावादिरेव पर्याप्तो जज्ञे । तंतः प्रभृति वैराग्यभावना तु तन्मनो विहाय दूरमगमत्, केवलं शृङ्गार एव सदनं चक्रिवान् । किं बहुना, तदासक्तस्य तस्याऽशनपानादेरपि विस्मृतिरजायत । ततः स तैर्वयस्यैः सह वेश्यासदनमागत्य तदीयहावभावादिभिः कामकिरोऽभवत् । यतो हि वेश्याविवेकयोानाज्ञानयोरिव महदन्तरमस्ति, तर्हि तस्या वेश्मनि निवसतो जनस्य भक्ष्याऽभक्ष्यपेयाऽपेयाद्यपेक्षणं जात्वपि नैव सम्भवति । ततोऽसौ वारविलासिनी श्रेष्ठिपुत्रं वशम्वदं विधाय मधुपानादिना प्रमत्तेन तेन सह स्वैरमनवरतं रममाणाऽऽसीत् अहो ! कुसङ्गदोषात्किं किं नाचरति ? यदाह- आनन्दमृगदावामिः, शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥३॥-अयं खलसमागमः-कुसङ्गतिः आनन्दलक्षणमृगस्य दावाग्निः, शीलशाखिनः शीलरूपी यस्तरुस्तदुन्मूलनाय मत्तमातङ्गः, ज्ञानदीपस्य निर्वापणे महावापुरस्ति, अत एव कुसङ्गत्या पुंसः शीलाऽऽनन्दविवेकादयो
॥९॥