________________
श्रीजैन
श्रीकयवनाचरित्रम्।
कथासंग्रहः
॥८॥
इत्थं धनदत्तेन प्रतिबोधितापि सा वसुमती निजाग्रहं न तत्याज किन्तु रोष एवाऽधिववृधे, ततः कोपाऽऽटोपादवादीत् स्वामिन् ! किमिदं ब्रवीषि ? कः पुमान् सत्याममितलक्ष्म्यां त्वमिव विषयविमुखं युवानमुपेक्षेत तदुपायं वा न कुर्वीत, किमेतदर्थमेव सुचिरं पुत्रमचीकमथा- ? हा हा !!! दिवानिशं नवोढा कामिनी गृहे रोरुद्यते, पुत्रस्तु यौवन एव वैराग्यं नीतः कथमेतन्मे धैर्य नो विलुम्पेत् ? अतः कयवन्नापुत्रं विलासिजनसङ्गत्यां क्षिप, यथाऽऽशु व्यवहारे नैपुण्यमाप्नुयात्। '
इत्थं पल्या अत्याग्रहादसौ धनदत्तो विज्ञोऽप्यज्ञ इव तथा कर्तुमुरीकृतवान् । ततः श्रेष्ठी निजपुत्रसमानवयसो यूनः पुंसो विलासिनः कतिपयानाकार्य शिक्षयामास-भोः ! यथाऽसौ कयवन्ना विषयसेवने पटीयान् भवेत्तथा भवन्तो यतन्ताम् । ततस्ते विषयविलासिनः श्रेष्ठिनः पार्थात्प्रचुर धनमादाय प्रथमं वसन्तोत्सवे श्रेष्ठिनः पुत्रमानिन्यिरे । तत्रानेकतरुण्यस्तनुश्रियाऽप्सरस इव भासमाना अनङ्गमपि साङ्गं विदधाना मुनीनामपि मनांस्यधीराणि कुर्वत्यः सरागं गायन्ति स्म । यद्यपि श्रेष्ठिनः पुत्रः प्राक् कदापीदृशीं कामिनीजनलीलां नो प्रेक्षाञ्चक्रिवान्, तथाऽपि संसर्गतस्तत्कालमेव मनसि चाञ्चल्यमध्यगच्छत् । ततस्ते तासां सङ्गीतस्थाने तं नीतवन्तः। तत्र तासां नाट्यं तारुण्यमद्भुतं लावण्यं
NA
॥८॥