________________
श्रीजैन कथासंग्रहः
श्रीकयवन्नाचरित्रम्।
॥७॥
अथाऽमुना ललनालपितेन धनदत्त: तस्याः कीयती धीरिति परिमाति स्म, तथा स्त्रीषु नैसर्गिकं मतिमान्द्यं प्रतिपादयत्सु नीतिवाक्येषु च प्रामाण्यञ्जग्राह । अत्रावसरे तत्प्रतिबोधनाय श्रेष्ठी न्यगादीत्अयि सुन्दरि ! तवेदं वचो वैषयिकलोकानामेवोपयुङ्क्ते, परन्तु आवयोः पुत्रः कयवन्ना तु तदसारमेव मनुते, वर्तते च परमार्थविचारे । यस्य लक्ष्मीरल्पीयसी भवति स एव सुतं गृहकृत्ये व्यवहारकृत्ये च योजयते । मम तु लक्ष्मीरपरिमिता तिष्ठति तर्हि कथमात्मकल्याणकारिपथादुत्तार्य मिथ्यात्वमये प्रपञ्चे तं पातयेयम् ? । स खलु किमप्यनुचितं नाऽऽचरति किन्तु, यदर्थ महात्मानो यतन्ते तदेवाधिगन्तुं सदैव पुराकृतसुकृतनिचयोदयादिहापि साधीयर्सी भावनां भावयते, अतस्त्वं तदर्थ माशोचीः। प्रिये ! किमेतन्न वेत्सि यदेकस्य गृहस्य निर्माणे भूयान् कालो लगति, तस्यैव भञ्जने तु क्षणमपि न लगति । इत्थमेव निवृत्तिमार्गे शाश्वतसुखप्रदे प्रवृत्तिरेव कठिना। यत: पापीयांसस्तस्मिन्मार्गे नैव प्रवर्त्तन्ते, किन्तु सुकृतिन एव । भाग्ययोगात्तत्र प्रवर्त्तमानानामध:पातनन्तु सर्वेषां सुकरमेव जानीहि । अत एव सन्मार्गे प्रवर्त्तमानं पुत्रं माऽधः पातयेथाः, किञ्च स्वयं तत्र मार्गे प्रवर्तितुं न शक्नुयां चेदन्यस्य श्रेयसि मार्गे प्रवृत्तस्य विघ्नकरणे महापापीयान्, अधमाऽधमश्च स्याम् । अतः सुभगे ! शुभेऽस्मिन् कृत्ये प्रस्तरं च मा क्षेत्रीहरीशमलीनविचारं मा कृथाः।
॥७॥