________________
AR
श्रीजैन कथासंग्रहः
श्रीकयवनाचरित्रम्।
॥६॥
किममङ्गलमजायत, येनेदृशं विच्छायं वदनं दधासि ? त्वामीदृशी प्रेक्ष्य महान्मे संशयो जायते, अतः सत्वरं मनोगतं दुःखकारणमाचक्ष्व।
इत्थं पत्युर्भाषितं श्रुत्वा पुनः शोकव्याकुलतामधिगता सती भृशं रुदती धैर्यमालम्ब्य साऽवदत्प्रियतम ! गृहे वधूः सदैव दुःखं भुङ्क्ते, तत्किं नो जानासि ? यद्यपि तद्विजानतस्ते तद्विषये यन्निगदामि तत्पिष्टपेषणमेव भवति, परन्तु तदसह्यं कष्टमेव निगदितुं भृशं प्रेरयति । यद्यपि मादृशी बुद्धिविकला स्त्रीजातीया भवादृशं मतिमन्तं किमप्युपदिशेदिति नैव घटते तथापि गत्यन्तरमलभमानया मया वक्तव्यमेव, नो चेन्महती हानिः संभविष्यति । स्वामिन् ! पश्य पश्य आवयोरेक एव चरमे वयसि सूनुरुत्पेदे, समृद्धिस्तु भूयसी वर्त्तते, परन्तु पुत्रस्य कौशल्यं व्यवहारे विषये वा मनागपि नैव विलोक्यते, दिवानिशं वैराग्यशास्त्रमेव त्यागीव भावयते । यदि तदेव योग्यं मनुषे तहि रम्भोपमया कन्यया सह तदुद्वाहः कथमकारि ? मया तु वध्वा ईदृशं दुःखं सोढुं नैव शंक्यते । तत्र भवतापि व्यवहारनिपुणेन तदुपेक्षणं नैव कर्त्तव्यम्, अतोऽहं प्रार्थये यथाऽऽशु कयवन्ना सांसारिके व्यवहारे मनो ददीत तथा प्रयतस्व । अत्राऽऽलस्यं माऽगाः, यथा च वधूट्यां पत्न्यामनुरज्येत्तथाऽह्राय' विधातव्यम्।
॥६॥