________________
श्रीन कथासंग्रहः
॥५॥
दुःखमनुभविष्यामि । त्वं खलु शिरश्छत्रमसि, अतोढ़ मामकं सोढुमशक्यं दुःखमवगत्य तन्निवारणोपाय'मचिरं विधाय मे नवोज्जीवनं प्रदेहि । यथाग्रे पुनरीदृशदुःखभाजनं न स्याम्, इतोऽग्रे यावन्निगदितुमिच्छति तावदनुभूतदुःखातिरेकाद्विदीर्णहृदया केवलमश्रुधारामेव मोक्तुं लग्ना सा जयश्रीः ।
' इत्थमाक्रोशन्त्याः पुत्रवध्वाः शोकेन शोकाकुलीभूता श्वश्रूरपि क्षणं रुदित्वा वध्वा अश्रूणि व्यपनीयतामवादीत्-वत्से ! मा शोची:, तवेदं दुःखं श्रोतॄणामपि दुःसहं मन्ये, या ते विद्वेषिणी साऽपीदृशं दुःखं जातुचिदपि माऽनुभूत् । ईदृशं सर्वर्द्धितदनमागत्यापि त्वमन्तर्गतदुःखाग्निना दन्दह्यसे तन्नो द्रष्टुं शक्नुयाम् । अतस्त्वं धीरा भव, दुःखं जहाहि । अद्यप्रभृत्येव तव दुःखविघाताय यतिष्ये, एतत्सत्यं विदाङ्करोतु भवती । यथाऽचिरादेव सर्वं मनोदुःखमपनीय त्वां सुखिनीं विधास्यामि, त्वमिदान निश्चिन्ता भव । यावत्ते दुःखं वरीवर्त्ति तावदहं दुःखमेवाऽनुभवामि, लेशतोऽपि सुखमधिगन्तुं नार्हामि । इत्थं तामाश्वास्य तदैव सा निजपतेरभ्या' शमागत्य शोकातुरा तस्थौ । अथैनां म्लानवदनामालोक्य धनदत्तः श्रेष्ठ्यपि किञ्चित् साशङ्कोऽभवत्, सापि दुःखातिशयात्स्तब्धीभूता किमपि जल्पितुं नाऽशकत् । तावद्धनदत्तोऽजल्पत्-प्रिये ! कथमद्य तव मुखं सखेदमालोक्यते ?, किं कश्चिदुत्पातो जातः, अथवा १ अभ्याशम् - समीपम् ।
श्रीकयवन्नाचरित्रम् ।
11411