SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः श्रीकयवत्राचरित्रम्। ॥४॥ नजायते। इति अभाषितमाकर्ण्य जयश्रीरमाविष्ट-अयि शत्रु! भवत्या अनुकम्पया विद्यते मे सकला सुखसाधनसामग्री, मातुः पितुर्वा वियोगों मनागपि मां नैव बाधते, दास्यादिवर्गोऽपि सहर्ष ममादेशं शिरसा बहत्येव, वसनाऽऽभरणादेरपि लिप्सा नैवास्ति । दुःखस्य कारणन्त्वन्यदेवास्ति, यद् भवादृशगुरुजनाग्रे निगदितुमपि त्रपां बिभर्मि, अकथने च मनसि खेद एव नितरामुच्छलति, तदपि चिरादेव मामतितरां निपीडयति । अद्य भवती ममाऽनवरतमङ्गलचिकीरत्याग्रहेण पप्रच्छ अतोऽहं चिरदुःखिनी तत्रभवर्ती निगदामि यन्मे तादृशदुःखहेतुरन्यः कोऽपि नास्ति, किन्तु भर्तुरप्रसाद एव महामुकामस्ति। मातः! त्वामधिकं किं लपामि, अद्यावधि तदन्तिकं पौन:पुन्येन गतामपि मामेकदापि नाऽवीवदत् । अहो ! लपनन्तु दूरमास्ताम्, सस्नेहमश्यदपि न, ज्ञानादज्ञानाद्वा तदीयमविनयमद्यावधि मया नाकारि, निरन्तरं सप्रेमतदनुकूलमेवाऽऽचरामि, तथापि बज्रादपि कठिनं तदीयं हृदयं मयि निरागस्यबलायामद्यावधि नैव प्रससाद । भवद्गृहाऽऽगमन-दिनादद्यावधि तावकः शिशुर्विहसन्नेकवारमपि मां नाऽवोचत । पूज्यतमे ! यत्सुखं लिप्सन्ती मातापितरौ निजसखीच हित्वा भवत्याः सदनमागाम्, तत्सुखस्याउलाभे कस्याग्रे पूत्कुर्याम् ? किं मे तं विना कोऽप्यन्यः सुखयिता सम्भवति यस्मिंस्तादृक्सुखाशां कुर्याम् ? यदीदृश्येव दुःस्थितिश्चिरं तिष्ठेत्तहिं बालविधवातोऽप्यधिक ॥४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy