________________
कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥४॥
नजायते। इति अभाषितमाकर्ण्य जयश्रीरमाविष्ट-अयि शत्रु! भवत्या अनुकम्पया विद्यते मे सकला सुखसाधनसामग्री, मातुः पितुर्वा वियोगों मनागपि मां नैव बाधते, दास्यादिवर्गोऽपि सहर्ष ममादेशं शिरसा बहत्येव, वसनाऽऽभरणादेरपि लिप्सा नैवास्ति । दुःखस्य कारणन्त्वन्यदेवास्ति, यद् भवादृशगुरुजनाग्रे निगदितुमपि त्रपां बिभर्मि, अकथने च मनसि खेद एव नितरामुच्छलति, तदपि चिरादेव मामतितरां निपीडयति । अद्य भवती ममाऽनवरतमङ्गलचिकीरत्याग्रहेण पप्रच्छ अतोऽहं चिरदुःखिनी तत्रभवर्ती निगदामि यन्मे तादृशदुःखहेतुरन्यः कोऽपि नास्ति, किन्तु भर्तुरप्रसाद एव महामुकामस्ति। मातः! त्वामधिकं किं लपामि, अद्यावधि तदन्तिकं पौन:पुन्येन गतामपि मामेकदापि नाऽवीवदत् । अहो ! लपनन्तु दूरमास्ताम्, सस्नेहमश्यदपि न, ज्ञानादज्ञानाद्वा तदीयमविनयमद्यावधि मया नाकारि, निरन्तरं सप्रेमतदनुकूलमेवाऽऽचरामि, तथापि बज्रादपि कठिनं तदीयं हृदयं मयि निरागस्यबलायामद्यावधि नैव प्रससाद । भवद्गृहाऽऽगमन-दिनादद्यावधि तावकः शिशुर्विहसन्नेकवारमपि मां नाऽवोचत । पूज्यतमे ! यत्सुखं लिप्सन्ती मातापितरौ निजसखीच हित्वा भवत्याः सदनमागाम्, तत्सुखस्याउलाभे कस्याग्रे पूत्कुर्याम् ? किं मे तं विना कोऽप्यन्यः सुखयिता सम्भवति यस्मिंस्तादृक्सुखाशां कुर्याम् ? यदीदृश्येव दुःस्थितिश्चिरं तिष्ठेत्तहिं बालविधवातोऽप्यधिक
॥४॥