SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३॥ परपुत्रीति मत्वा दिवानिशं वधूं दुःखीकरोति, दास्यादिकृत्यं दुष्करमपि तयैव कारयते, कलहायते च सदैव तया सह वध्वा तादृशी श्वश्रूः । जगति स्तोकैव तादृशी भाग्यशालिनी वधूरस्ति, या तादृशकलहजां पीडां नानुभवति, यदीदृशी भर्तुर्भ्राता भगिनी वा स्यात्तर्हि तादृश्यां तस्यां कियन्तं सद्भावं वधूः कुर्यादिति विज्ञाः स्वयमेव तर्कयेयुः । अस्याः श्वश्रूस्तु तादृशी नाऽसीत्, सा खलु सदैव निजवधूं मधुरयैव गिराभाषत, स्नेहमयेनैव चक्षुषा व्यलोकत, निजदुहितरमिव भृशं लालयति स्म, सत्यवसरे सुखदुःखयोर्वार्त्तामपि पृच्छति स्म, उत्तमं भोज्यं तस्यै दत्त्वैव स्वयं भुङ्क्ते स्म, कुपिताऽपि सा तां कदापि ध्रुवी क्रूरां दृशं वा नाऽदर्शयत्, तस्यां भर्त्तुरनुरागो मनागपि नास्तीति जानानाऽपि परमनया वार्त्तया वध्वा बहुदुःखं भविष्यतीति घिया तदग्रे कदाऽपि तां वार्त्ता न व्याजहे । अथैकदा विच्छायवदनां चिन्तातुरां जयश्रियं विलोक्य श्वश्रूरपृच्छत् वत्से ! कथमद्य तवाऽयं वदनशशी शोकस्वर्भानुना ग्रस्तप्रायो दृश्यते ? किन्ते मातापितरौ स्मृतिपथमायातौ ? अथवा मत्पुत्रेणावज्ञाताऽसि ? वत्से ! सदैव तवाऽऽननं प्रसन्नमालोकि, तदेवाऽद्य चिन्तातुरं विच्छायं दरीदृश्यते कथम् ? सत्यं विद्धि-अहं खलु तव सुखदुःखाभ्यामेव सुखिनी दुःखिनी वा भवामि, त्वामहं पुत्रीतोऽपि विशिष्टां जानामि, अतस्त्रपां विहाय शोककारणं मां ब्रूहि । यतः- अज्ञातस्य दुःखस्य कापि चिकित्सा श्रीकयवन्नाचरित्रम् । 11311
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy