________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम्।
॥२॥
महोत्सवं नानाविध वितन्वान: पदिनानि बहूनि दानानि च ददानः प्रमोदभरः श्रेष्ठी द्वादशेऽहनिजातस्य सूनोर्महता महेन कयवनेति नाम व्यधात् । तस्य पुत्रस्य ललाटफलके काचिंदद्भुतैव भाग्यरेखा दीप्यमानाऽऽसीत् । एष बाल: सितदले पीयूषमयूख इव ववृधे । पञ्चमे वर्षे पित्रा लेखनशालायां प्रवेशितः। अल्पीयसा कालेनैव स सर्वासु विद्यासु नैपुण्यमीयिवान् । अयं खलु प्रत्यहं विद्याविनोदेनैव कालं गमयन् मातापित्रोर्मानसमाह्नादयन् मनसा चानवरतं शुभं भावयन् वैराग्यवासनाप्रवाह एव निमजन्नासीत् । व्यावहारिक-लौकिककृत्ये तु स्तोकमपि तन्मनो नो लगति स्म । केवलं साहित्यचर्चातदभ्यासयोरेव सुखममन्यत । यदुक्तम् - काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा॥१॥ततोऽनेन कुलजारम्भोपमा सकलकलाकुशला नाम्ना जयश्रीमहामहेन पित्रा परिणायिता, परमेतस्यां तारुण्यपूर्णायामपि मनोवृत्तिर्मनागपि तेन नाऽदायि, केवलमात्मीयवैराग्यवासनाया विघातिनीत्येव मेने । अत एव कदापि तां जयश्रियं प्रेमभरेण रहसि नाऽऽश्लिक्षत्रो लुलोके, नवा किमपि जजल्प मन्मथराजधानी जयश्रीस्तु प्राणनाथमात्मसात्कत्तुकामा नवरतकटाक्षेक्षणसस्मितमधुरालापादिहावभावान् वितन्वानाऽऽसीत्, परमेतस्याः सकलोऽप्युपाय ऊपरभूमौ बीजवाप इव बभूव । ततः सा सर्वमेतन्निज़बूं निगदितुमैषीत् । यद्यपि लोके कियती श्वश्रूः ..
॥२॥