________________
॥अईम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पर-हेमचंद्र-सद्गुरुभ्यो नमः॥
श्रीजैन कथासंग्रहः
श्रीकयवनाचरित्रम्।
गद्यसंस्कृतभाषात्मकं श्रीकयवन्नाचरित्रम्।
॥१॥
श्रीमन्तं वर्द्धमानं जिनवरमनघं त्रैशलेयं प्रपूज्यं, नामं नामं सुविद्वत्प्रवरनिजगुरुद्वन्द्वपादारविन्दम्। भव्यात्मस्वान्ततुष्ट्य क्षितितलमहितं सच्चरित्रं तदेतत् सद्गचं बोधिबीजप्रदमतिललितं निर्मिमीते यतीन्द्रः ॥१॥
इह खलु भरतक्षेत्रे प्राच्यदिविभागे सकलर्द्धिशालिनी समृद्धिशालिजनाशेषभोग्यपरिपूर्णा राजगृही नाम प्रख्यातनगरी जागर्ति, तत्र रामचन्द्र इव न्यायनिष्ठः श्रेणिको नाम भूजानिरासीत् । अमुष्य नरनाथस्य पशतप्रधानमुख्यः श्रीअभयकुमारनामा मन्त्रीश्वरोऽभवत्तमाम् । तस्यामेव नगवा धनदत्तनामा महेभ्यः प्रधानव्यापारी निवसति स्म । तारुण्ये खल्वेतस्य कापि सन्ततिर्नोदपद्यत, किन्तु चरमे वयसि भाग्ययोगादेकः सूनुरजायत । तदा श्रेष्ठिनः सूनुजा प्रीतिः काचिदसीमैव समुत्पेदे । अत एव पुत्रजन्मनि
॥१॥