________________
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ।।
सेत्स्यन्त्येतेन मन्त्रिणा । इत्यानन्देन नो माति महीनाथो महीतले ॥५१८ ॥ सुतेन बोधिताऽम्बाऽपि, सुधामधुरया गिरा। आनायिता गृहे पत्नी परिणीता च सादरम् ॥ ५१९ ॥ सौभाग्यमञ्जरी साऽपि, पाश्रीश्च सुतान्विता। गृहीतश्चाहतो धर्मः, श्रीगुणाकरसूरितः॥५२०॥॥ युग्मम् ॥ तदीयमतिमाहात्म्यातस्य राज्ञः परे नृपाः । अखर्वगर्वयुक्ता अप्यभूवंस्ते सदा वशाः ॥ ५२१ ॥ प्रवर्धमाने भूपस्य प्रसादे प्रतिवासरम् । सर्वेषामपि सौख्यानां, स भाजनमजायत ॥५२२ ॥ श्रुत्वा धर्माख्यानमेतद्विचार्य, श्राद्धा ! धर्म मा कुरुध्वं प्रमादम् । येन श्रेयोभाजनीभूय यूयं, सर्वज्ञोक्तां मुक्तिमाशिश्रयध्वम् ॥ ५२३ ॥ प्राग्जन्मसुकृते देवकुमारकथानकं सम्पूर्णम् ॥
॥४२॥
॥४२॥