SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः IMMIRMIRE ॥श्रीदेवकुमार चरित्रम् ।। ॥४०॥ पुत्रेनस्फुरतीत्यधिकः सुतः॥४९॥समन्येऽत्रैव वास्तव्यः, स्वोपलक्षणभीरुकः। नात्मानं दर्शयत्यस्य, कुर्वे परिचितं ततः ॥ ४९४ ॥ध्यात्वेत्युक्ता तया दासी त्वया कत्यपि वासरान् । दर्शनीयः पिताऽर्भस्य यथा तेनोपलक्ष्यते ॥ ४९५ ॥ पद्यश्रीरन्यदैकान्ते नरनाथं व्यजिज्ञपत् । देव ! देशभयं चौर-लब्युपायं यथाऽऽदये॥ ४९६ ॥ नृपेणाऽनुमते सोचे, देवो देवकुले निजे। निवेश्य दर्शयित्वा च, नरानेकैकशोऽपि : हि॥ ४९७ ॥ सुतं पृच्छन्तु पार्थस्थं तवाऽयं स्यात्पिता न वा ?। तलारक्षनरैश्चाका-रणं कार्य गृहे गृहे। ४९८ ॥ तैः पूर्वेण प्रवेश्याश्च, निःसार्या:पश्चिमेन च। डिम्मः प्रत्यभिजानाति यं स चौरः सुनिश्चितम्॥ ४९९ ॥ नृपेणाऽथ तथाऽऽरब्धे, प्रघोषो नगरेऽभवत् । श्रुत्वा देवकुमारस्या-ऽतुल्यं शल्यमभूत् हदि । ५००॥दर्शितोऽहं तया मन्ये, सुतस्य कथमन्यथा। नृपेणेदृशमारम्भि, भाव्यं भवति नान्यथा॥५०१॥ न'तोकं द्वादशाब्दयाऽपि, प्राप सौभाग्यमञ्जरी। स्वल्पैरपि दिनस्त्वेषा, पापं छन्नं न तिष्ठति ॥ ५०२॥ उपायं न प्रपश्यामि, किछिद् यद्वा पराखे । नश्यन्ति बुद्धयो दैवे, इति सुनिश्चितं मया ॥ ५०३ ॥ तत्तावत्तत्र गच्छामि, यद्धाव्यं तद्धविष्यति । ध्यात्वेति स्वयमेवाऽयं तत्र देवकुले गतः ॥ ५०४ ॥ तलारक्षनरैस्तत्र, प्रधानपुरुषान् क्रमात् । प्रवेशमानानेकैकानपृच्छन्नृपतिः शिशुम् ॥ ५०५ ॥ अथ १ पुत्रम्। NEEEEEE ॥४०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy