SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम्॥ . ॥३१॥ LLLLLLJLJSJLLJSJJLJ. मय्यनुरागिणी ॥ ४८१ ॥ वचनस्य विशेषेणा-अनुरागो हि प्रकाश्यते । माधुर्य सहकारस्य, यथा वर्णविशेषतः ॥ ४४२ ॥ राज्ञा विसृष्टोऽवाऽऽस्थाने, समग्रोऽपि सभाजनः । प्रणामपूर्वकं स्वस्वस्थानकानि समासदत्॥४८३॥ अथ देवकुमारस्य, सुतोऽभूत् पञ्चवार्षिकः। गात्रस्योपचयेनेष, ज्ञायते अष्टवार्षिकः॥४८४ ॥ पितरौ प्रेक्ष्य डिम्भानां, मुग्धः स्वाम्बामुवाच सः । कथं मे जनको नाऽस्ति, हसित्वा साऽह तिष्ठति ॥४८५॥ तन्मे दर्शय सा प्राह, दर्शयिष्यामि ते प्रगे। निश्यागतस्य तस्याऽऽख्यत्सुतोक्तं साऽथ सोऽपि ताम्॥४८६ ॥ रहस्यभेदभीत्याऽह, निषिद्धाऽस्य मया ननु । नाऽऽनेयोऽत्र सुतः सोपा-लम्भं सा प्राह तं प्रति ॥ ४८७॥ मन्ये वज़मयस्त्वं यचिरादपि दिदृक्षसे । न स्वमुत्कण्ठितं पुत्रं, विकल्पं च दधौ हृदि ॥ ४८८ ॥ अयं ध्रुवं यथावस्थः, स्वसुतेन निरीक्ष्यते । तत्प्रच्छन्नं तमानाय्य करिष्येऽद्य परीक्षणम् ॥ ४८९॥ध्यात्वेत्यशिक्षयच्चेटी, गवाक्षेण तुजः' पिता । दर्शनीयस्त्वया छन्नमथ चेटी तथाऽऽनयत् ॥ ४९०॥ अपृच्छच्च नरं मातुः, पार्थे पश्यसि वा नवा?| स प्राह सुलु पश्यामि, सोचे वर्णेन कीदृशः ?॥४९१ ॥ स प्राह स्वर्णवर्णोऽस्ति द्वितीये दिवसेऽथ च । सुते पृष्टे सुवर्णाऽऽभ, बदत्यम्बाऽपि विस्मिता ॥ ४९२ ॥ श्यामं पश्याम्यहं मिथ्या, सुतः सत्यं तु पश्यति । तस्यापि शक्तिः १ सुतस्य। ॥३९॥.
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy