________________
श्रीजैन
कथासंग्रहः
॥३८॥
GI ||
कृत्वा स्वयं सारां करोति च ।। ४६८ ।। स चातिरूचिरस्तस्याः प्राणेभ्योऽपि हि वल्लभः । सज्जनस्नेहवद्वृद्धिं, प्रयाति प्रतिवासरम् ।। ४६९ ।। पद्मश्रीवारवेश्यायाश्चौरादजनि नन्दनः । जातमाबालगोपालमिति सर्वत्र विश्रुतम् ॥ ४७० ॥ राज्ञ्यऽन्यदा सदःस्थेऽस्या मागतायां च संसदि । नृपं व्यजिज्ञपद्देव कुमारः स्फारवागिति । ४७१ ।। देव! चौरस्य वार्त्ताऽपि नष्टाऽस्याः सन्धया सह । चौरात् पुत्रेण जातेना-ऽथवा सन्धामपूर्वसौ ॥ ४७२ ।। तेनेत्युक्ते महीपालो ऽहसत् सभ्यजनैः सह । सज्जलज्जा तु पद्मश्रीभूद्वेधाप्यवाङ्गुखी ॥ ४७३ ।। तामाश्वास्य नृपो देव कुमारं प्राह नन्वहो ! । कथं स गृह्यते चौरो ? योऽदृश्यो भवति क्षणात् ॥ ४७४ ॥ किं चैवंविधशक्तिः स सर्व मुष्णाति नो पुरम् । यत्तन्मन्ये जनस्योपर्याऽऽधत्ते करुणामयम् ॥ ४७५ ॥ अथ प्रोवाच पद्मश्री देव एतावदेव किम् । वक्ति शक्तिफलं तस्य, सर्वशक्तिमयो हि सः ।। ४७६ ।। तेन केलीकिलत्वेन गृहीताः पादका अपि । न पुनर्द्रव्यलोभेन, सर्वकार्यक्षमो हि सः । ४७७ ।। ततः प्राप्तोऽपि देवस्य स हन्तुं नैव युज्यते । अथाऽह दत्तभूर्देवाऽऽवर्जितेयं प्रमोषिणा ।। ४७८ ।। उपायेन तदेतेन तस्य प्रार्थयतेऽभयम् । शक्तिस्तस्याऽधिका वश्या, वेश्याऽपि यदसौ कृता ।। ४७९ ॥ अथ प्राह नृपः प्राप्तः, स यदा भविता तथा । तदाऽहमभयं तस्या ऽवश्यं दास्यामि नानृतम् ।। ४८० ॥ वेश्या महाप्रसादोऽभूदिति प्राह ससम्मदा । दध्यौ श्रेष्ठिसुतः सम्यगसी
॥ श्रीदेवकुमार चरित्रम् ॥
||३८||