SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३७॥ 30 30 300 2001 2000 3500 300 300 300 300 300 300 300 300 300 300-300 500 500 500 500 500 500 500 SE | 0 | EN तामूचे मोचयैनं गृहेऽन्यत्र सधात्रिकम् ।। ४५६ ।। अन्यथा नाऽऽगमिष्यामि, गृहेऽहं प्राह सा ततः । कारयिष्यसि यत्त्वं च करिष्ये तदहं प्रिय ! ॥ ४५७ ।। परं देवकुमाराभं, प्रत्यक्षं प्रेक्ष्य नन्दनम् । निजं स्वनेत्रनिर्माणं, प्राणेश ! सफलीकुरु ॥ ४५८ ॥ स्वनामशङ्कितो दध्यौ, स किं ज्ञातोऽनयास्म्यहम् । यद्वाऽलं शङ्खया पुत्रस्योप- मानमिदं ददौ ।। ४५९ ।। उत्कण्ठितः स तां प्राह, तं दर्शय ममाग्रतः । मणिपालनकादेन मानीयाऽदर्शयच्च सा ।। ४६० ॥ स तं स्मितमुखं स्वस्य, तुल्यं सम्मुखवीक्षकम् । स्नेहेन लालयामास चुचुम्ब च मुहुर्मुहुः ॥ ४६१ ॥ दध्यौ च सूचयत्यस्या -ऽऽकारोऽपि मम पुत्रताम् । दैवेनैवंविधः सैष, निर्ममे तु पणस्त्रियाम् ॥ ४६२ ।। भुजङ्गमपरीवार- स्तदयं चन्दनद्रुमः । निधानं प्रकटं चैतत्, दुष्टभूतैरधिष्ठितम् ॥ ४६३ ॥ रत्नमेतन्महामूल्यं, परं पामरपाणिगम् । अयमर्गलितो हीनकुले 'श्वेतमतङ्गजः ॥ ४६४ ॥ इत्थं हर्षविषादानां विषयं स्वं निरुध्य सः । हसन्नाह ममातुल्यं, कथं वक्षि ममाऽङ्गजम् ? ।। ४६५ ।। ह्रिया तस्यामधोमुख्यां, चिरात्तेन निजाऽङ्कृतः । तस्याः समर्पितः पाण्योरको भणिता च सा ।। ४६६ ॥ अमुं कत्यपि वर्षाणि मोचयाऽन्यगृहे पुनः । यदि वाञ्छसि कल्याणं, सा दध्यौ ज्ञानवानयम् ।। ४६७ ।। तत्पश्यत्यशिवं किञ्चिदिति तस्य वचो व्यधात् । धात्रिकासूत्रणां .१ ऐरावणः । 米米|森|糖糖|| 1300 300 300 300 300 300 300 300 315 || 300 300 300 300 300 300 300 300 300-300 | 300-300 | 300-300 300 300 300 30 300 30 30 300 300 300 315 33 ॥ श्रीदेवकुमार चरित्रम् ।। ॥३७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy