________________
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम्॥
3120
॥३६॥
排排排排排排聯群群
Maiaminaiwala
स तथाऽऽहतः। रञ्जिता क्रमशो दाता, यत्पादावपरावपि॥४३॥ स्मयते रमते वक्ति, तेन मातावदेव सा। यावत्सुखायते तस्य चित्ताऽऽवर्जनहेतवे ॥ ४४४ ॥ वीक्षते च तदङ्गानि, स तु निद्राति तत्र न । अविश्वसन्न चात्मानमल्पमप्यर्पयत्यलम्।। ४४५॥ निमेषैस्तु तयाऽज्ञायि, नृसिद्धोऽयं न देवता। प्रातस्तया दृश्यमानः, स ययौ निजमन्दिरम् ॥ ४४६ ॥ इति यात्येत्ययं नित्यं, तद्गृहे ग्रहणं विना । असौ त्यजत्यसम्भूतिवासरांस्तु प्रयत्नतः ।। ४४७ ॥ प्रत्यहं तस्य वृत्तान्तं, राज्ञे विज्ञपयत्यसौ । अपत्यसम्भवदिनमानं चाऽऽख्यद्विशेषतः ।। ४४८॥ राज्ञोचे तत्किमप्यस्य, चिन्त्यं मर्मपदं ततः । नैकदा तद्दिनं तेनाज्ञायि गुळथ साऽभवत् ॥ ४४९ ।। स प्राह प्रकटे गर्भे, कुतो गर्भस्तवाऽभवत् ? । तयोचे भवतो दथ्यौ, सोऽथैषाभाषते मृषा॥४५० ॥ स कालो यन्मया त्यक्तोऽनया तु चलचित्तया। कोऽप्यन्यो रमितो नाऽन्य-पुत्रान्मेऽस्ति ततो भयम् ॥ ४५१ ॥ ममैव तनयः स्याच्चे-त्करिष्येऽहं ततस्तथा। यथा स मम रूपं न, सर्वथाऽपि विलोकते ॥ ४५२ ॥ किमर्वाक् कातरत्वेन, तत्तदा चिन्तयिष्यते । स ध्यात्वेत्यभिन्नमुख-रागो मौनं समाश्रयत्॥ ४५३ ।। तया गर्भव्यतिकरे, नरेशस्य निवेदिते । स प्राह रक्ष यत्नेन, गर्भ तत्सम्भवं शुभे ! ॥ ४५४ ॥ अथ गर्भानुभावेन, सस्नेहा सा व्यचिन्तयत् । दापयिष्याम्यमुष्याऽहं, प्राणानामभयं नृपात् ॥ ५५ ॥ सम्पूर्णसमयेऽसूत, सुतं सङ्केतितैर्दिनैः । स
॥३६॥