________________
Faश्रीदेवकुमार
कथासंग्रहः
न
चरित्रम् ।।
॥३५॥
ययो । दर्शितो नृपतेरने, खट्दापादो मणिमयः ॥ ४३१ ॥ ॥ युग्मम् ॥ बभाषेऽन्तःससम्भ्रान्तः, पश्यताऽस्या:पराक्रमम् । सर्वे चास्थुर्विनम्रास्या, मन्त्र्याद्या हीभरादिव ॥ ४३२ ॥ प्राह देवकुमारोऽथ देव! दीपशिखा यदि। गुहातमोऽपनयते, तत्किं दिनकृतोऽधिका?॥ ४३३ ॥ सूचीच्छिद्रप्रवेशे च, मुसलं कुशलं न चेत् । एतावता कथं देव! सूची मुसलतोऽधिका?॥ ४३४ ॥ पिपीलिकामुपादातुमक्षमश्चन्मतङ्गजः । तत्किं मतङ्गजादप्य-धिका देव! पिपीलिका?॥४३५ ॥ अन्यच्च दर्शिते चौरे-ऽथ पादत्रयेऽपि हि। विज्ञैः सत्यप्रतिज्ञेयं, मन्यते नाथ ! नाऽन्यथा ॥ ४३६ ॥ अथ सा प्राह सामर्षा, तव गर्वोऽस्ति चेन्मतः। तत्त्वं विधेहि सन्थांस्वां, स प्राह तव संविदः ॥ ४३७॥ प्रेक्षेप्रान्तं ततः पश्चाद्यत्किञ्चन करोम्यहम् । स्वयं प्रेक्षिष्यसे तद्धि, नराधीशोऽथ तां जगौ॥ ४३८॥ भद्रे! समुत्सुका मा भूः, क्रमशो वत्सरैरपि। पाश्चात्यपादयुगल-मानायय मलिम्लुचात् ॥ ४३९॥स्वयं सुशिक्षिताऽत्रार्थे, शिक्षणीयाऽसि किं ? शुभे! । स्वभावधवलज्योत्स्ना, किं केनापि धवल्यते ? ॥ ४४० ॥ कृतप्रसाददाना सा, विसृष्टाऽथ महीभुजा। माति नक्वापि तुच्छाऽपि, महिला सहजादपि॥ ४४१॥ निश्यदृश्यः प्रविश्यैष, पद्मश्रीसज्ञया तया। कृतोचितप्रतिपत्तिः, पल्याकेस निविष्टवान् ।। ४४२॥ विनाऽपि हि ग्रहणकमायातः १ प्रतिज्ञायाः। २ स्वभावात्।
CRIMEREMMMMMED
MMIRMIRMIRMIRMIRMIRMIRRIAN
॥३५॥
R