________________
BIRRI
SI
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ॥
॥३४॥
BREE
द्रक्ष्यति सदैव हि ॥ ४१८ ॥ सन्निवेशोऽस्य मन्त्रस्य, सत ईदृश एव यत् । अथ देवकुमारेण, पूजा तस्योचिता कृता॥ ४१९ ॥ तमनुज्ञाप्य च स्थित्वा, ग्रामे द्विवान् दिनान् क्वचित् । पुनः स्वपुरमायातोऽमिलन्मातुर्नृपस्य च ॥ ४२०॥ दध्यौ च तस्या वेश्यायाः, सन्धा छेद्या कथं मया?। दत्ते रत्नमये पादे, महानऽर्थव्ययो भवेत् ॥ ४२१ ॥ अगच्छंस्तामबलयाऽपि हि स्यां विजितः पुनः । द्रव्यस्य तु फलं नृणामभिमानस्य साधनात् ॥ ४२२ ॥ तस्मादेकेन पादेनाऽभिमानं साधयाम्यहम् । पाश्चात्याभ्यामपि द्वाभ्यां, मम भावि समीहितम् ॥ ४२३ ॥ ध्यात्वेति प्राच्यगुटिका-प्रभावादऽन्यरूपभृत् । जनरदृश्यमानोऽन्यैः, सायं मन्त्रप्रभावतः ॥ ४२४ ॥ गतस्तस्या गृहे पादं, मणिमयमदर्शयत् । अक्का स्वदुहितुश्चाख्यत्साऽभ्युत्थानादि चाऽऽचरत् ॥ ४२५॥ सोऽथ तत्रोषितस्तस्याः, कामसङ्ग्रामशिल्पवित्
कौशलं दर्शयन्नेतच्चित्तरत्नमचूचुरत् ॥ ४२६ ।। उक्तःप्रातस्तयाऽत्रैव, यूयं कुरुत भोजनम् । निषिद्धे तेन सोचे त-नित्याऽऽगत्या प्रसद्यताम् ॥ ४२७ ॥ एवमस्त्विति तां प्रोच्य, स्मृत्वा मन्त्रं च चेतसि । सोडगाददृश्यतां तस्याः, पश्यन्त्या एव तत्क्षणम्॥ ४२८॥सादथ्यौ विस्मिता सैष, सिद्धो विद्याधरोऽथवा । अथाऽऽगताका प्रोवाच, भुजङ्गः किं न दृश्यते?॥ ४२९ ॥ तद्वृत्तान्तं निवेचैषा, प्राह शक्त्या य ईदृशः । स कथं गृह्यते ? ज्ञाते, स्वरूपे तु शनैः शनैः ॥ ३०॥ कार्यस्तद्गहणोपायो-ऽथ सा राजकुलं
॥३४॥