________________
श्रीजैन
कथासंग्रहः
॥३३॥
| 300 300 300 3081
100000100000 200 20001000203129
सुमुहूर्ते प्रचलितः, काम्पील्यपुरमागमत् ।। ४०५ ।। प्रविष्टो मन्दिरे तुष्टो, जनकस्तु तदाऽऽगमात् । तन्नृपाभरणं तच्च, नृपाभरणमार्पयत् ॥ ४०६ ॥ कालीसुतस्य वृत्तान्तमाख्यच्च निखिलं पितुः । नीतो नृपान्तिकं तेनाऽऽनीय सम्मानितो मुदा ॥ ४०७ ॥ इत्थं परधनग्राही, स दास इव नश्यति । श्रियं श्लाघां च लभतेऽपरः परशुरामवत् ॥ ४०८ ॥ श्रुत्वा देवकुमारस्तु, धर्माख्यानं दधौ हृदि । नातः परं परद्रव्यं, हरिष्येऽहं मनागपि ।। ४०९ ॥ वारवेश्याप्रतिज्ञां च दर्शयित्वा कथञ्चन । साधूनां पादमूलेऽहं प्रपद्ये च जिनोदितम् ।। ४१० ।। ध्यात्वेति स निजस्थान-मागतो नृपमन्यदा। व्यंजिज्ञपदऽहं वेला - कूलं तातान्तिके गमी ।। ४११ ।। यद्यास्यत्यम्बुधौ तातो, मिलित्वाऽहं समैमि तत् । अनुज्ञातस्ततो राज्ञा, तदैवाम्बाग्रतोऽवदत् ॥ ४१२ ।। यथा पश्चान्न जायेत, वित्ते शङ्का विरूपिका । जनेशस्य जनन्याश्च, दत्तस्याऽदर्शने चिरम् ।। ४१३ ।। गच्छन्नध्वनि सोऽपश्य- देकं योगिनमुत्तमम् । तं नत्वा पत्रपूगादि, स तस्य मुदितो ददौ । ४१४ ।। विनयं कुर्वता तेना- Sऽवर्जितो योगिनां वरः । उवाच तव तुष्टोऽस्मि, वद किञ्चिद्ददे यथा ।। ४१५ ।। परः प्राह कृतार्थोऽहमस्मि वो दर्शनादपि । पूज्यपादान् पुनः स्मर्तु, मन्त्रमादातुमुत्सहे ।। ४१६ ॥ येनात्मानं दर्शयितुं यस्येच्छामि स पश्यति । न त्वन्ये इति तेनोक्ते, तस्यायं मन्त्रमार्पयत् ।। ४१७ ।। डूचे च ते सुतो मन्त्रा - त्साध्यसिद्धिर्भविष्यति । यस्ते सुतस्तु भावी सः, त्वां
ES BE BHBE SEEN | 3 3 3 3 3
| 300 300 300 300 300 300 300 300 300 300 300 300 300-300 500 500 500 300 300 300 300 300 300 300 300
॥ श्रीदेवकुमार
चरित्रम् ॥
॥३३॥