SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम् ॥ ॥२९॥ ॥३५६ ॥ उक्त्वाऽन्तःप्रविशतो द्वाःस्था ! देयः कस्याऽपि नान्तरा । प्रवेशो द्वारि कार्या च, बाढमत्र नियन्त्रणा ॥ ३५७ ॥ बलाद्विशंश्च निःशङ्क, हन्तव्यस्तदुदीरिते । न कार्यः प्रत्ययो धूर्ता धूर्तयन्ति यतो जनम्॥३५८॥ द्वाःस्थैरात्तस्तदादेशो, यक्षस्तुणतुरङ्गतः। उत्तीयैक्षिष्ट तां वास-भवने दीप्रदीपके॥३५९॥ दह्यमानागुरुक्षोद-घनसारसुगन्धिनि । स्थितां महार्हपल्य? स्फारशृङ्गारधारिणीम् ॥ ३६० ॥ ॥युग्मम् ॥ लमचाटूनि कत्तुंस, सा साऽऽशङ्का ततोऽभवत् ।। दध्यौ च किमयं चाटु-,कारो नव इवाऽद्य मे॥३६१॥ कथं च मम दह्येते दर्शनेनास्य दर्शने । ममेष रणरणकः, कस्मानिःकारणस्तथा?॥३६२।। यावत्तस्योत्तरं दत्ते, न सा साऽऽशकमानसा । तावद्राजकुलात् द्वारे, मन्त्रिराजः समागमत् ॥ ३६३ ॥ उद्घाटयतरे द्वारा-णीति द्वा:स्थानुवाच सः । साधिक्षेपं जगुस्तेऽथ, कस्त्वं किमभिधोऽसि च?॥३६४॥ स प्राह किरे ग्रहिला, मत्ता अथ शयालवः ? । यद्विजानीथ नाऽऽयान्तं, मां स्वकीयमपि प्रभुम् ? ॥३६५ ॥ ते प्राहुः पूर्वगदितो, दोषयुक्तस्त्वमेव हि । परगेहप्रवेशेच्छु-गुहेशस्तु पुराऽऽगतः ॥ ३६६ ॥ तद्रच्छ कुशलं वाञ्छन्, न प्रवेशो भवादृशाम् । धूर्तानामत्र मन्त्र्याह, किं केनाऽपि प्रतारिता:?॥३६७।। धूर्तेन प्राक् प्रविष्टेन, यद्गुणधवलो ह्यहम् । ते प्राहुर्गुणधवलो, बलीवर्दोऽसि सत्यतः ! ॥ ३६८ ॥ HERER ॥२९॥ MIRMIR
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy