________________
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ॥
॥२७॥
देवाऽऽदेशस्तवाऽपि हि । इत्युक्त्वा शौचवान् लगः, प्रवेष्टुं स स्मरन् जिनम् ॥ ३३१ ॥ उत्क्षिप्ताङ्ग्रेजले • तस्य, मकरःपृष्ठमार्पयत् । तत्र न्यस्तपदो गृहन्, कमलानि बहूनि सः॥ ३३२ ॥ शुद्धः शुद्धो वदत्येवं,
जने स च विनिर्ययो। प्रक्षिप्ता सुममाला च तत्कण्ठे चण्डिकार्चकैः ॥ ३३३ ॥ दम्यौ नृपो ग्रहीष्यामि, बलादाभरणं यदि । ततो मेऽपयशो ग्राह्यं, पुनरेतद्यथा तथा।। ३३४ ॥ ध्यायन्त्रित्येष विज्ञप्तो, जयदेवेन देव ! यत् । काम्पील्यपुरभूनाथ-मन्त्रिणो नन्दनो हासौ॥ ३३५॥न सामान्योऽस्य माहात्म्यं, दृष्टं देवेन हि स्वयम् । तदर्पयित्वाऽलङ्कार, सम्मान्य च विसृज्यताम्॥३३६ ।। दयो मन्त्रिसुतः काष्ठ-पञ्जराद्वजपञ्जरे । ममाऽभरणमपतत्, राजाऽथ श्रेष्ठिनं जगी ॥ ३३७ । पुनर्विज्ञपयेरुक्त्वा भ्रूक्षेपाद् व्यसृजत्सभाम् । जूचे मन्त्रिभुवा श्रेष्ठी, नृपाऽऽकूतं न सुन्दरम् ॥ ३३८ ॥ स मन्यते मन्त्रिपुत्रो, रुष्टो मे किं करिष्यति ?। उरभक इवेभस्य मण्डूक इव भोगिनः ॥ ३३९॥ न वेत्तीति यदनयो, विहितो न हि सुन्दरः । कमलाउन्छादितं चक्षु-नयमार्ग न पश्यति ॥ ३४०॥ मार्गप्रष्टस्ततोऽवश्य, विषमेऽसौ पतिष्यति । तदस्तु मे च आदेशो, याम्यहं नगरं निजम् ॥ ३४१॥ मया दृष्टस्त्वलकारः, काप्ययं न प्रयास्यति। श्रेष्ठी प्राह प्रतीक्षस्व, पुनर्विज्ञपये नृपम् ॥ ३४२ ॥ इतश्च गुणधवलः, सचिवस्तत्र तिष्ठति । तस्य प्रिया यथार्थाऽऽख्या नाम्ना सर्वाङ्गसुन्दरी ॥ ३४३ ॥ तयोः परस्परं प्रेम-भरमन्थरचेतसोः । याति काल:
RE
॥२७॥