________________
श्रीजैन
कथासंग्रहः
॥२६॥
303001 JOB 5000 300 300 300 300 500 500 500-500 300530 30 30 30 300 300 300 500 500 500 500 5000
SEE
M
प्रोवाच तत्त्वं स्वं तत्त्वं वद स धृष्टताम् । कृत्वाऽऽह रोहणेशस्य, भृत्योऽहं गङ्गनामकः ॥ ३१८ ॥ विक्रेतुं भूषणं प्रेषि, स्वामिना मूल्यमस्य च । सुवर्णलक्षं स्मित्वाऽथ श्रेष्ठी प्रोवाच मूर्ख रे ! ॥ ३१९ ॥ असम्यगपि नो सम्यग् वक्तुं वेत्सि यदेककम् । रत्नमश्रेष्ठमप्यस्य, लभते स्वर्णलक्षकम् ।। ३२० ।। अर्ध तु समुदायस्य, कर्तुं शक्नोति कोऽपि न । तत्त्वया रोहणोत्पत्ति-र्मृषा चक्रे स्वतर्षतः ।। ३२१ ॥ त्वयाऽर्थपातनादस्या - नर्थे स्वात्माऽपि पातितः । हृतस्य वस्तुनो मूल्यं, न जानन्ति हि तस्कराः ॥ ३२२|| क्रुद्धो दासोऽवदत्कोऽहं दृष्टो युष्माभिरीदृश: ? । रेणुतुल्यं परद्रव्यं मम किं तत् हराम्यहम् ? ।। ३२३ ॥ तदर्पयन्तु मे युष्म-त्सङ्गे जीवितसंशयः । श्रेष्ठ्यर्पयन्निषिद्धस्तन्मन्त्रिपुत्रेण निश्चयात् ॥ ३२४ ॥ मुष्टो मुष्टो वदन् दासः, सिंहद्वारं स चागमत् । राज्ञा पृष्टः स्ववृत्तान्तं, प्रागुक्तं निजगाद सः ।। ३२५ ।। राज्ञा द्वावप्यथाहूय, पृष्टौ मन्त्रिसुतोऽवदत् । स्ववृत्तान्तमथो काली-पुत्रः प्रोचेऽखिलं मृषा ।। ३२६ ।। इहार्थे दुष्टदेव्यग्रे - प्यात्मानं शोधयाम्यहम् । अथ राजा समानाय्य, तद्भूषणमलोकत ।। ३२७ ।। तदुल्लसद्युति प्रेक्ष्य, जिघृक्षुः क्ष्माधवोऽवदत् । दास रे! यदि सत्योऽसि, पद्मान्यादत्स्व तन्नदात् ॥ ३२८ ॥ चर्चिकामर्चये तैश्च धृष्टत्वमवलम्ब्य सः । विशन्नदं क्षणादेव, भक्षितो मकरादिभिः ॥ ३२९ ॥ त्वमप्यनेन विधिना, गृहाणेति नृपोदिते । स प्राहैतदशुद्ध्याऽपि शुद्धिर्देव ! ममाभवत् ॥ ३३० ॥ मया न खण्डयितव्यो,
RHE
HE
30 30 30 30 30 30 30 30 30 30 30 30 30 30 300 300 3500 300 30000000011
T
॥ श्रीदेवकुमार
चरित्रम् ॥
॥२६॥