SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीदेवकुमार चरित्रम् ॥ ॥२५॥ गजाः ॥३०५॥स तस्यैव गृहे पुत्र-रीत्याऽऽस्तेऽन्यत्र वासरे। गतः पुष्करिणी तेन, सह श्रेष्ठी गरिष्ठधीः॥ ३०६॥ करक्रममुखाम्भोज-शोचं तस्य प्रकुर्वतः । गलति स्म महामूल्य-मङ्कलीयमलक्षितम् ।। ३०७॥ चलति श्रेष्ठिनि गृहाऽभिमुखं मन्त्रिनन्दनः । तदादायाचलत्पृष्ठे, श्रेष्ठी सस्मार तत्पधि ॥ ३०८॥ तं परः प्राह किं यूव-माकुला इव सोऽवदत् । मुद्रारत्नं पथि कापि, पतितं सम्प्रति स्मृतम् ॥ ३०९ ॥ आर्पयन्मन्त्रिपुत्रस्तत्, तुष्टः श्रेष्ठी तमाहूत । अद्यापि वर्तते धर्मों, दृश्यन्ते त्वादृशा नराः ॥ ३१०॥ आत्मवत्सर्वभूतानि, परद्रव्याणि लोष्टवत् । मातृवत्परदाराणि, यः पश्यति स सन्नरः ॥ ३११ ॥ कलिकालस्य कालुष्यै-नांद्याप्युवी कलक्यते । तद्धन्यं मन्दिरं देवा, त्वादृशा यत्र सन्नराः ॥ ३१२ ॥ द्वावपि स्थानमायातावन्यदा मन्त्रिनन्दने । पटच्छत्रतनौ श्रेष्ठितटाऽऽसनमधिश्रिते ॥ ३१३ ॥ स 'दासेरो दर्शयितुं, नृपाऽऽभरणमागतः । श्रेष्ठिनोऽन्तेऽवदत् श्रेष्ठी नृपोचितमिदं ननु ॥ ३१४ ॥ प्रत्यभिज्ञाय तं मन्त्रि-पुत्रः श्रेष्ठिसुतो जगी। उवाच च कुतस्त्वं रे! कालीसुत ! समागतः ? ॥ ३१५ ॥ ज्ञात्वाऽपि मन्त्रिपुत्रं तं, दासेरः प्राह को भवान् ? । कचाहं कस्त्वया सार्ध-मास्ते परिचयः पुरः? ॥ ३१६ ॥ प्राह मन्त्रिसुतोऽमात्य-स्यार्जनस्य किं भवान् दासः ? स प्राह प्रान्तोऽसि, तद्दासत्वं वदन्मम॥३१७ ॥श्रेष्ठी १दासीपुत्रः Manianimar Miamirminainamaintain ॥२५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy