________________
श्रीजैन कथासंग्रहः
॥ श्रीदेवकुमार चरित्रम् ॥
॥२५॥
गजाः ॥३०५॥स तस्यैव गृहे पुत्र-रीत्याऽऽस्तेऽन्यत्र वासरे। गतः पुष्करिणी तेन, सह श्रेष्ठी गरिष्ठधीः॥ ३०६॥ करक्रममुखाम्भोज-शोचं तस्य प्रकुर्वतः । गलति स्म महामूल्य-मङ्कलीयमलक्षितम् ।। ३०७॥ चलति श्रेष्ठिनि गृहाऽभिमुखं मन्त्रिनन्दनः । तदादायाचलत्पृष्ठे, श्रेष्ठी सस्मार तत्पधि ॥ ३०८॥ तं परः प्राह किं यूव-माकुला इव सोऽवदत् । मुद्रारत्नं पथि कापि, पतितं सम्प्रति स्मृतम् ॥ ३०९ ॥ आर्पयन्मन्त्रिपुत्रस्तत्, तुष्टः श्रेष्ठी तमाहूत । अद्यापि वर्तते धर्मों, दृश्यन्ते त्वादृशा नराः ॥ ३१०॥ आत्मवत्सर्वभूतानि, परद्रव्याणि लोष्टवत् । मातृवत्परदाराणि, यः पश्यति स सन्नरः ॥ ३११ ॥ कलिकालस्य कालुष्यै-नांद्याप्युवी कलक्यते । तद्धन्यं मन्दिरं देवा, त्वादृशा यत्र सन्नराः ॥ ३१२ ॥ द्वावपि स्थानमायातावन्यदा मन्त्रिनन्दने । पटच्छत्रतनौ श्रेष्ठितटाऽऽसनमधिश्रिते ॥ ३१३ ॥ स 'दासेरो दर्शयितुं, नृपाऽऽभरणमागतः । श्रेष्ठिनोऽन्तेऽवदत् श्रेष्ठी नृपोचितमिदं ननु ॥ ३१४ ॥ प्रत्यभिज्ञाय तं मन्त्रि-पुत्रः श्रेष्ठिसुतो जगी। उवाच च कुतस्त्वं रे! कालीसुत ! समागतः ? ॥ ३१५ ॥ ज्ञात्वाऽपि मन्त्रिपुत्रं तं, दासेरः प्राह को भवान् ? । कचाहं कस्त्वया सार्ध-मास्ते परिचयः पुरः? ॥ ३१६ ॥ प्राह मन्त्रिसुतोऽमात्य-स्यार्जनस्य किं भवान् दासः ? स प्राह प्रान्तोऽसि, तद्दासत्वं वदन्मम॥३१७ ॥श्रेष्ठी १दासीपुत्रः
Manianimar
Miamirminainamaintain
॥२५॥