SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ IEEE श्रीजैन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम् ।। ॥२४॥ iswalBEISEX रूक्षाक्षरमदोऽवदत् ।। २९२ ॥ त्वं रे ! पुत्रच्छलात्कालः, कलितोऽसि कुलस्य नः । विधेयविधिना राजा, प्रसाद्यो हि कथं मया ? ॥ २९३ ।। कोऽस्माकं मार्यमाणानां, परित्राणं करिष्यति । तत्त्वं धूम इवाऽपुण्य-काष्टोत्थः श्यामताकरः ।। २९४ ॥ इति निर्भर्त्सयन् मन्त्री, प्रधानैरिति भाषितः। अन्तरौर्वोऽपि शीतत्वं, न जहाति महाम्बुधिः ॥ २९५ ॥ विभाव्य ताः च मानार्थ-हानिसन्तापवञ्चनाः । दुश्चरित्राणि धाम्नश्च, मतिमान्न प्रकाशयेत् ॥ २९६ ।। तच्चैतत्परशुरामेण, हारितं भूषणं तथा । तत्किं युष्माभिरप्यात्मगरिमा हार्यतेऽधुना? ॥ २९७ ।। ततोऽमात्योऽभजन्मौनं, सुतश्चित्ते त्वचिन्तयत् । गुणोऽपि मम तातस्य चित्ते दोषतयाऽविशत् ।। २९८ ॥ तत्तेजःखण्डने स्थातुं, न मे युक्तं रवेरिव । ध्यात्वेति निर्ययावर्द्ध-रात्रे गात्रेण केवलम् ॥ २९९ ॥ गतश्चोत्तरदेशस्थ-मिन्द्रप्रस्थाभिधं पुरम् । तत्राऽऽरामे च परशुरामो विश्राममादधे॥३००॥ तत्र धर्मयशोनाम्नो, मुनेर्गुणयुतस्य सः। शृणोति स्म स्वमाधुर्य-जितवीणास्वरं स्वरम् ॥ ३०१ ॥ तं नत्वा देशनां श्रुत्वा-ऽदत्तादानाद्विरम्य सः । कृतार्थं मन्यमानः स्वमिन्द्रप्रस्थान्तराऽऽगमत् ॥ ३०२ ॥ श्रेष्ठिना जयदेवेन, प्रधानेन पुरान्तरा । चक्रे स च परिचयं, रञ्जितस्तद्गुणैरयम् ॥ ३०३ ॥ यत: स्थानादपि भ्रष्टा, गुणवन्तो नृपैरपि । उह्यन्ते शिरसा पश्य, मणयो रोहणादिव॥ ३०४ ॥ पूगीफलं च पत्राणि, नालिकेरतुरङ्गमाः । स्थानभ्रष्टाश्च शोभन्ते, सिंहा: सत्पुरुषा alanianianiuminaintaintainsinatantamins BREIN 2010 MER ॥२४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy