SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम्॥ ॥२३॥ । वसुन्धरापतेस्तस्य युक्तं पत्नी वसुन्धरा ॥ २७९ ॥ मन्त्री तस्याऽर्जनो नामाऽर्जनो मतियशो रसैः। . देवकी सेवकीभूत-गुणा तस्यास्ति वल्लभा ।। २८० ॥ तयोः परशुरामाख्यः, सुतः प्रज्ञागुणस्तुतः । सङ्गीतवाद्यखीमित्रो, गृहकार्यपराङ्मुखः ॥ २८१ ।। समयेऽपि न सेवार्थ, प्रयाति पृथिवीपतेः । केवलं शास्त्रसंलीन-चित्तोऽस्ति सहितो बुधैः ॥ २८२ ॥ स मन्त्रिणाऽन्यदा प्रोचे, गृहकार्याणि चिन्तय । शास्त्रैकव्यग्रचित्तस्तु, ग्रहिलत्वमवाप्स्यति ॥ २८३ ॥ क्षुत्तृषार्तस्य चाधारो, न शास्त्रेण भविष्यति । कुटुम्बस्यापि नाऽऽपारो, नृपसेवां ततः कुरु ॥ २८४ ॥ पितुर्वाक्यं परीहासं, मन्वानोऽस्थात्तथैव सः । प्रायो जनस्य सर्वस्य, स्वभावो दुष्परित्यजः॥ २८५ ॥ शल्यवहुःखदः सोऽभूत्, पितुर्गाम्भीर्यतो नतु। तस्य दुःखावहं किञ्चिदवदवदतांवरः ॥ २८६ ॥ अन्यदा च नरेन्द्रस्य, कण्ठाऽऽभरणमद्धतम् । महामूल्यं पञ्चवर्णमणिमण्डलमण्डितम् ।। २८७ ।। नृपाऽऽदिष्टो नरोऽमात्यस्यार्पयित्वा जगाद तम् । स्थाने न्यसेदं माऽवज्ञामित्युक्त्वा स जगाद च ॥ २८८ ॥ मन्त्र्युत्सुकः समप्यन-मलङ्कारं तनूभुवः । गतो राजकुलं मन्त्रि-पुत्रःशाखंत्वचिन्तयत् ॥ २८९ ।। अबुध्यमानो दुर्बोध-मर्थ तममुचत्तटे। विजनं वीक्ष्य तं हृत्वा, दासः कालीसुतोऽनशत् ॥२९० ।। ज्ञातोऽर्थो मन्त्रिपुत्रस्तदवीक्ष्याऽऽभरणं हृदि। क्षुभितोऽपृच्छदन्योन्यानथ मन्त्री समागतः ॥ २९१ ।। गतमाभरणं मत्वा, क्रोधखेदवशंवदः । उद्धतभ्रकुटिः स्पष्टं, Miamimarimmiaminata ॥२३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy