SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 2 ॥श्रीदेवकुमार चरित्रम् ॥ 05135 ॥२१॥ कृत्वा गुग्गुललेपेन, विलेपनमसौ गतः । जीर्णदेवकुलेऽश्रौषीदन्धानिति च वादिनः ।। २५५ ॥ केनापि भोजिता नाद्य, स निश्येतान्यमन्त्रयत् । मिथस्तान् लगयित्वा च, दोष्णा स्वेन पुरोऽभवत् ॥ २५६ ॥ मार्गे गुग्गुलगन्धेन, कुष्टिसार्थ जनोऽविदत् । दूरेण याति गमने, न कोऽपि प्रतिबन्धकः ॥ २५७ ॥ यथेच्छं भोजयित्वा तान्, विविक्तेऽवासयच्च सः । दिने जाते पुनरपि, स तैः पिण्डमपातयत् ।। २५८॥ टिम्बराजस्य नाम्नाऽथ तान् भोजनमकारयत् । द्वादश द्वादश द्रम्मान, दक्षिणायां ददौ च सः ॥ २५९ ।। कृत्वा हृष्टांश ताम्बूलचन्दनायैः पुनर्निशि । तत्रैव मुक्त्वा तानन्धांन्, दत्तजः स्वगृहं गतः ॥ २६० ॥ अर्धरात्रे तलारक्षनृवर्गः परितो भ्रमन् । अन्धदेवकुलाऽऽयातोऽश्रौषीत्तेषां मिथो गिरः ॥ २६१ ॥ यथाऽद्य भोजयामास, कोऽपि नः कोऽपि नो पुरा । तथा पिण्डं च नो हस्तैर्धर्मात्माऽपातयच्च सः ॥ २६२ ॥ दक्षिणा च परा दत्ता, परापेक्षा यथा न नः । दिनानि कत्यप्याहारे, श्रुत्वेत्याहुः परा नराः ॥ २६३ ।। हक्कापूर्व भवद्भिः क्व, भुक्तं प्रज्ञादृशोऽवदन् । परतप्तिकराः केऽमी, प्रक्षिपन्त्यमृते विषम् ॥ २६४ ।। तलारक्षनरा: प्राहुः पिण्डश्चौरस्य मन्दिरे । भवद्भिः पातितो दण्डस्तत्कार्यस्तद्वदेव वः ॥ २६५॥ सत्ये तु कथिते मोक्षो, भवतामथ तेऽवदन् । जात्यन्धाः सदनं तस्य कथयामः कथं वरम् ? ॥ २६६ ॥ ते प्राहुः RRRRRRRRRRRRRRRMIRMIRMI0 ॥२१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy